________________
5.
10
प्रभावकचरिते
यथा दुष्कृतिलोकस्य वयं दण्डमकृष्महि । तथा स्वस्यापि किं नैव कुर्मः कर्मच्छिदाकृते ।। ५४० ॥ गुरुराह स्मितेनाथ विमृश त्वं हि चेतसा । निबद्धं कर्म चित्तेन चित्तेनैव विमोच्यते ॥ ५४१ ॥ स्मार्त्तानार्त्त (र्त्ति ) भिदे पृच्छ प्रायश्चित्तानि पाप्मनाम् । यतः स्मृतिषु सर्वेषां मोक्ष ऊचे मनीषिभिः ॥ ५४२॥ वेदान्तोपनिषत्तत्त्वश्रुतिस्मृतिविशारदाः । तत्राहूयन्त भूपेन स्तूपेन न्यायनाकिनः ॥ ५४३ ॥ यथावृत्तं मनः शल्यं जगदे तत्पुरस्तदा । ततस्ते स्मृतिवाचालास्तभ्यं शास्त्रानुगं जगुः ॥ ५४४ ॥ आयसीं पुत्रिकां वह्निध्मातां तद्वर्णरूपिणीम् । आश्लिष्यन्मुच्यते पापाञ्चाण्डाली सङ्ग सम्भवात् ॥ ५४५ ॥ श्रुत्वेति भूपतिः कारयित्वा तां कथितक्रमात् । आनाय्य तत्र सज्जोऽभूत् तदालिङ्गनहेतवे ॥ ५४६ ॥ वेगादागत्य पाञ्चालीमाश्लिष्यंस्तां स्वसिद्धये । पुरोधो' - बप्पभट्टिभ्यां भूपतिर्भुजयोर्धृतः ॥ ५४७ ॥ आह श्रीपट्टिश्च स्थिराधार ! स्थिरो भव । मा कोटिंभरमात्मानं नाशयेथा मुधा सखे ! ।। ५४८ ।। उक्तश्चैकाग्रचित्तेन साहसानन्यवेश्मना । भवता कर्म चित्तेन बद्धमुन्मोचितं त्वया ॥ ५४९ ॥ अस्य पापस्य मुक्तोऽसि कृष्णाभ्रादिव भास्करः । द्योतिष्यसे सतामन्तर्मुञ्च तत्कर्म दुष्करम् ।। ५५० ।। आनन्दितः प्रभोर्वाग्भिरिति तत्याज कुग्रहम् । इति ज्ञाते च हर्षोऽत्र पुनर्जात इवाभवत् ।। ५५१ ॥ अमात्यैर्नगरे तत्र सर्वद्धर्यालंकृते कृते । गजगन्धर्वसन्दोहरध्यापादातिसंवृतः ॥ ५५२ ॥ पट्टहस्तिशिरस्थानाग्रासनस्थे मुनीश्वरे । रोमगुच्छातपत्रादिप्रक्रिया प्रकटप्रभे ॥ ५५३ ॥ प्रविवेश विशामीशः स्वयं श्रीश इव श्रिया । सुराणामध्यपूर्वेण पुरमत्युत्सवेन सः ॥ - त्रिभिर्विशेषकम् । ६१८. इतो वाक्पतिराजश्च तं दृष्ट्वा राजवैकृतम् । निर्बन्धान्नृपमापृच्छय वैराग्यान्मथुरां ययौ ॥ ५५५ ॥ धर्माख्यावसरेऽन्येद्युः प्रभुर्भूपालमूचिवान् । धर्मतत्वानि पार्षद्यमानितानि विवृत्य सः ॥ ५५६ ॥ नवनीतसमं विश्वधर्माणां करुणानिधिम् ' । 'सन्त्याद्यमार्हतं धर्मं परीक्षापूर्वकं श्रय ॥ ५५७ ॥ राजा प्राहातो धर्मो निर्वहत्येव मादृशाम् । परीक्षायां परं शैवधर्मे चेतोऽलगद्' दृढम् ।। ५५८ ॥ त्वदुक्तो नीरमानेष्ये कुम्भेनामेन' रङ्गतः । परं मा माममुं धर्म त्याजयिष्यसि सौहृदात् ॥ ५५९ ॥ न मुझे पैतृकाचारं वच्मि किंचिच्च वः पुरः । चेद्रौषं नहि धत्तात्र गुरुरोषाद्विभीः श्रिये ॥ ५६० ॥ ब्रूतेति' गुरुणा प्रोक्ते "नृपः प्राह स्मितं दधन् । बोधयेयुर्भवन्तोऽपि बालगोपाङ्गनादिकम् ॥ ५६१ ॥ कोविदं नैव शास्त्रार्थपरिकर्मितधीसखम् । रम्भाफलं यथा भक्ष्यं न तु निम्बफलं तथा ॥ ५६२॥ शक्तिश्चेद्भवतामद्य मध्ये मधुरमागतम् । पुराणपुरुषं नित्यं चित्ते ध्यायन्तमद्भुतम् ॥ ५६३ ॥ यज्ञोपवीतवीताङ्गं नासाप्रन्यस्तदृष्टिकम् । तुलसीमालया लीढवक्षःस्थलमिला स्थितम् ॥ ५६४ ॥ श्रीकृष्णगान सत्तृष्ण वैष्णव ब्राह्मणावृतम् । पुत्रजीवकमालाभिर्मण्डितोरःस्थलं किल ।। ५६५ ।। वराहस्वामिदेवस्य प्रासादान्तरवस्थितम् । वैराग्यातिशयात्तत्र कृतप्रायोपवेशनम् ॥ ५६६ ॥ प्रतिबोध्य तदा जैनमते स्थापयत द्रुतम् । वाक्पतिराजसामन्तं पर्यङ्कासनसंस्थितम् ।। ५६७ ॥ - पंचभिः कुलकम् ।
15
20
25
30
१०२
तैश्चाभ्युपगतेऽशीतिं चतुर्भिरधिकां तदा । सामन्तानां बुधानां च सहस्रं प्रेषयन्नृपः ॥ ५६८ ।। आचार्यैः सह ते प्रापुस्त्वरितं शीघ्रवाहनैः । मथुरां तत्र चाजग्मुर्वराहस्वामिमन्दिरे ॥ ५६२ ॥ पूर्वाख्यातोदितावस्थं परमात्मस्थचेतनम् । ददृशुः सूरयो भूभृत्पुमांसश्च तमादरात् ॥ ५७० ॥ तत्र श्रीबप्पभट्टिश्च त्रयीस्तवनतत्परम् । काव्यवृन्दमुदाजहे तस्य चेतः परीक्षितुम् ॥ ५७१ ॥
446
1 A महर्षिभिः । 2 A पुरोधा । 3N यशः श्रिया । 4 A °निधेः । 5 N संत्याज्य° । 6 N परीक्षायाः । 7 N लगे दृढं । 8 A कुंभनासेन । 9 N ब्रूतेऽथ | 10 A नृपे । 11 N तथा निंबफलं न तु ।