________________
w270070
नवपदवृत्ति:मू.देव.
मा037youva4|
व. यशो
॥१०॥
२२३२२२१११
भवति तादृश्युपदय॑ते, makalins अत्र चागतपदैकीकरणे उक्तसङ्ख्यापूर्तिर्भवति, द्वादशव्रतभङ्गसङ्ख्या त्वननेव क्रमेण स्वयमभ्यूह्येति, एवं तावदावश्यकनियुक्त्यभिप्रायेण भङ्गप्ररूपणा कृता, साम्प्रतं भगवत्यभिप्रायेणोपदय॑ते-" तिन्नि तिया तिन्नि दुया तिन्निक्केक्का य होंति जोएसु । तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई॥१॥" अस्य स्थापना- | अत्र चैकद्विकत्रिकसंयोगचिन्तनया एकोनपञ्चाशद् भङ्गा भवन्ति, तथा चोक्तम्-“मणवइकाइयजोगे करणे कारावणे अणुमईण । एक्कगद्गतियजोए सत्ता सत्तेव इगुवन्ना ॥१॥" एतेषां चायमभिलाप:-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचा कायेनेति त्रिविधत्रिविधेनैको भङ्गः १ त्रिविधद्विविधे त्रयो भङ्गाः, ते चैवं-न करोमि न कारयामि कुर्वन्तं नानुजानामि मनसा वाचेत्येकः १ मनसा कायेनेति द्वितीय: २ वाचा कायेनेति तृतीय: ३ त्रिविधैकविधेऽपि त्रयो, यथान करोमि न कारयामि कुर्वन्तं नानुजानामि मनसेत्येक: १ वाचेति द्वितीय: २, कायेनेति तृतीय: ३, द्विविधत्रिविधे च त्रयो, यथा-न करोमि न कारयामि मनसा वाचा कायेनैक:, न करोमि कुर्वन्तं नानुजानामि तैरेव द्वितीयः, न कारयामि कुर्वन्तं नानुजानामि तैरेव तृतीय: ३. द्विविद्विविधे तु नव, यथा करोमि न कारयामि मनसा वाचैक: १ मनसा कायेन द्वितीय: २ वाचा कायेन तृतीय: ३ न करोमि नानुजानामि मनसा वाचेत्यादयस्त्रयः ३, कारयामि नानुजानामि मनसा वाचेत्यादयोऽपि वय: ३, सर्वे नव, द्विविधैकविधेऽपि नव, तद्यथा-न करोमि न कारयामि मनसैक: १ वाचा द्वितीय: २ कायेन तृतीय: ३, न करोमि नानुजानामि मनसेत्यादयस्त्रय: ३, न कारयामि नानुजानामि इत्यादयोऽपि त्रय: ३, सर्वे नव ९, एकविधत्रिविधे तु त्रयो, यथा-न करोमि मनोवाक्कायैरेक: १, कारयामीत्येतैरेव द्वितीय: २ नानुजानामीत्येतैरेव तृतीयक: ३, एकविधद्विविधे तु नव, तद्यथा-न करोमि मनसा वाचैक: १ मनसा कायेन द्वितीय: २ वाचा कायेन तृतीयः ३, एवं न कारयामि नानुजानामीत्येतयोरपि त्रयस्त्रय: ३, सर्वे नव ९, एकविधैकविधेऽपि नव ९, तद्यथा-न करोमि मनसैक: १ वाचा द्वितीयः २ कायेन तृतीय: ३, एवं न कारयामि नानुजानाम्यनयोरपि त्रयस्त्रय: ३, सर्वे नव, सर्वे संयोगागतमीलने चैकोनपञ्चाशद्भवन्ति ४९, कालत्रयगुणने च सप्तचत्वारिंशदधिकं शतमिति १४७, तथा चोक्तः- "पढमेक्को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org