Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 217
________________ वृत्तं नवपदवृत्ति:मू.देव. वृ. यशो ॥१९४॥ सप्तमपृथिवीगतेः नृपतिश्चिन्तयामास, तच्छ्रुत्वा निजचेतसि ।।२३।। हा ! किमेवं जिनो जुते, नि:सङ्गस्य तपस्विनः । सप्तम्या: किं भुवो ध्यानं, भावदेव साधकं भवति क्वचित् ? ॥२४॥ यद्वाऽन्यथैव नाथेन, निर्दिष्टं मयका पुनः । अन्यथा श्रुतमित्येव, चिन्तयत्येव भूभुजि ।।२५।। क्षणमात्रेण संजज्ञे, | नभस्तारकितं यथा । गच्छद्भिर्देवसङ्घातविमानैर्युतिभासुरैः ।।२६।। ध्वानपूरितरोदस्यस्तदा दध्वान दुन्दुभिः । उल्ललास सुराणां च, घनो जयजयारव: ॥२७॥ ततो भूयोऽपि पप्रच्छ, विनयावनतमस्तक: । जिनेन्द्र श्रेणिको नाथ !, किमेतज्जातमद्भुतम् ? ॥२८॥ देवा यत्र प्रयान्त्येते, कृतदुन्दुभिनि:स्वनाः । भगवानभ्यधाद्भूप!, प्रसन्नेन्दुमहामुनेः ! ॥२९।। केवलज्ञानमुत्पन्नं, पूजार्थं तत्र यान्त्यमी । स प्राह यन्मया पूर्व, श्रुतं मिथ्यैव किन्नु तत् ? ।।३०।। त्रैलोक्याधिपतिर्बुते, न मिथ्या किन्तु तत्क्षणे । रौद्रध्यानममुष्यासीद्, राजोवाच, पुनर्जिनम् ।।३१।। महदाश्चर्यमाभाति, ममैतज्जिनपुङ्गव ! कथं तत्तादृशं ध्यानं ?, कथं वा ज्ञानमीदृशम् ? ॥३२।। किं वा निबन्धनं तत्र, ध्याने जातं महामुनेः ? । तीर्थनाथोऽब्रवीद्राजन् !, किमाश्चर्यमिदं तव? | १॥३३॥ येनैकस्मिन् दिवसे सङ्ख्यातीता भवन्ति कर्मवशात् । ब्राह्यनिमित्तापेक्षा: शुभाशुभा जीवपरिणामाः ॥३४।। पृष्टं निबन्धनं यच्चं, ध्याने तच्छृणु पार्थिव ! । यदा त्वं वन्दनार्थं नो, निर्गतो नगरानृप ! ।।३५।। सुमुखो दुर्मुखश्चान्यस्तदैवागात् त्वदग्रतः । अवोचत् सुमुखस्तत्र, दृष्ट्वा तं मुनिसत्तमम् ।।३६।। अहो ! धन्यः सपुण्योऽयं, यस्त्यक्त्वा राज्यमुत्तमम् । घोरं तपश्चचारैवं, संसारसुखनि:स्पृहः ।।३७।। दुर्मुखस्त्वाह धन्यत्वं, कुत एतस्य विद्यते ? । असञ्जातबलं बालं, प्राव्राजीत् प्रविहाय य: ॥३८।। स सम्प्रति सुतस्तस्य, वैरिभि: परिभूयते । अशक्तो विग्रहे तेषां, च्याविंतो राज्यसम्पदः ।।३९।। एतत्तस्य वचः श्रुत्वा, कषायवशवर्त्तिताम् । यात: प्रसन्नचन्द्राख्यः, साधुश्चिन्तितवानिदम् ।।४०।। मम पुत्रस्य को राज्यं, गृह्णाति मयि जीवति ? । त्रोटयामि शिरस्तस्य, य एवं कुरुते मम ।।४।। एवं विचिन्तयन्नेव, धर्मध्यानं विमुच्य स: । रौद्रध्यानमनुप्राप्तः, कोपलुप्तविवेकधीः ॥४२।। येन-भक्ष्यमभक्ष्यं पेयमपेयं, कृत्यमकृत्यं चार्यमर्चायम् । धर्ममधर्म सातमसातं, क्रोधवशो जीवो नहि वेत्ति ।।४३।। अपिच-प्रज्वलितकोपवह्निः क्षणेन चरणेन्धनं दहति जीव: । कष्टानुष्ठानशतैर्यदर्जितं प्रचुरकालेन ॥४४॥ ततोऽसौ चेतसैवाशु, शत्रुभिः सह सङ्गरम् । प्रारेभे कर्तुमत्यन्तं, विस्मृतात्मा प्रकोपतः ।।४५।। सर्वायुधक्षयो जातो, यावदेतस्य तत्र च । तावत्प्रसारित: पाणिः, शिरस्त्राणजिघृक्षया श्र ॥४६॥ न चासौ तत्समापन्नः, केवलं लुञ्चितं शिरः । पस्पर्शावेशविवशः, प्रत्यावृत्तस्तत: पुन: ।।४७|| हा ! हा ! दुष्ठु ! मयाऽचिन्ति, क्रोधान्धीकृतचेतसा । मिथ्यादुष्कृतमेतस्य, संस्कृतात्मा ददाम्यहम् ॥४८॥ को वाऽत्र कस्य तनयः, पिता भाताऽथ वैरिकः ? । नारकादिचतूरूपभवावर्तेऽटत: KA Jain Educ h eratonal For Personal & Private Use Only willibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334