Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 328
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥३०५॥ विज्ञेयो, यदुक्तम्- "तस्स य चरमाहारो, इट्ठो दायव्वु तण्हछेयट्ठा। सव्वस्स चरमकाले अईव तण्हा समुप्पज्जे ॥ १॥ तण्हाछेयंमि कए न तस्स अहियं पवत्तई तण्हा । चरिमं च एस भुंजइ, सद्भाजणणं दुपक्खेऽवि ॥ २ ॥ त्ति 'दुपक्खेऽवि' त्ति अनशनिकप्रतिचारकलक्षणपक्षद्वयेऽपीत्यर्थः । तथा 'धीरावणसामग्गी पसंसणं'- ति, धीरताया आपादनं धीरतापादनं तत्र सामग्री धीरतापादनसामग्रीसंविग्नगीतार्थसन्निधानादिरूपा यथा कथञ्चिच्चलितधैर्योऽप्यनशनी पुनस्तत्रैव स्थाप्यते तस्याः प्रशंसनं श्लाघा धीरतापादनसामग्रीप्रशंसनं, एतच्च सर्वमेव गीतार्थसंविग्न एव करोति, नान्यः, यतः- “नासेइ अगीयत्थो, चउरंगं सव्वलोयसारंगं । नट्ठमि चाउरंगे नहु सुलहं होइ चउरंगं ॥१॥" 'चउरंगं' ति मानुषत्वश्रुतिश्रद्धासंयमवीर्यरूपमिति, किमर्थं करोतीत्याह श्रद्धा अनशनिन एव स्वकीयश्चरमाराधनायामभिलाषस्तस्या वृद्धि: उपचयस्तदर्थं श्रद्धावृद्ध्यर्थं यच्चेदं श्रुतिपानकादि अनुशास्तिभोजनादि गीतार्थसंविग्नः श्रद्धावृद्ध्यर्थमस्य विदधाति तत्सर्वं सहासहादिपुरुषस्वभावालोचनेनोत्सर्गापवादसेवारूपत्वात्संलेखनायतनेति गाथार्थः । इदानीमतिचारद्वारं प्रक्रम्यते इहपरलोगासंसप्पओग मरणं च जीवियासंसा । कामे भोगे य तहा मरणंते पंच अइयारा ।।१३५।। ‘इहपरलोकाशंसाप्रयोगः' इति सूत्रत्वाल्लुप्तविभक्तिको निर्देशः, तत्राशंसनमाशंसा तस्याः प्रयोग आशंसाप्रयोगः, इहपरलोकयोराशंसाप्रयोग इहपरलोकाशंसाप्रयोगः, लोकशब्दस्येहपरशब्दाभ्यां सम्बन्धादिहलोकाशंसाप्रयोगः परलोकाशंसाप्रयोग इत्येतौ द्वावतिचारौ, अनयोश्चेहलोकाशंसाप्रयोगोयदिह लौकिकीं चक्रवत्र्त्यादिसमृद्धिं प्रार्थयते, परलोकाशंसाप्रयोगस्तु देवेन्द्राश्रियमनशनव्यवस्थितः कामयत इति १ - २, 'मरणं च' त्ति सूचनात्सूत्रमिति न्यायान्मरणाशंसाप्रयोगश्चेति तृतीयोऽतिचारः, तत्र यदा प्रतिपन्नोत्तमार्थस्य सपर्यावैयावृत्त्यादौ न कश्चिदाद्रियते व्याधिना बाध्यमानोऽनशनी पीडामधषोढुं न शक्नोति तदा शीघ्रं यदि म्रियेऽहं तदा शोभनं भवति, एवमाशंसां कुर्वाणस्य मरणाशंसाप्रयोगः ३ तथा जीवितस्याशंसा- वाञ्छा जीविताशंसेति चतुर्थोऽतिचारः, अयं च तदा भवति यदा कश्चिदात्मनो महतीं पूजां लोकेन क्रियमाणामालोक्य वैयावृत्त्यकरादीनामादरं चात्मविषयं दृष्ट्वा चिन्तयत्येवंयथा सुन्दरं भवति यदि कानिचिद्दिनान्येवमेव जीवामि प्रतिप्रन्नानशनस्य गुर्वी मे लोकात्पूजेति 'कामभोगे य तह त्ति काम्यत इति कामः - शब्दरूपलक्षणो भुज्यत इति भोगो-रसगन्धस्पर्शस्वभावस्तस्मिन् कामे भागे च तेन पूर्वोक्तेन प्रकारेण तथा आशंसाप्रयोग इति सम्बन्धः, अनेन च कामभोगाशंसाप्रयोगः पञ्चमोऽतिचारः सूचितः अस्य च तदा विषयो यदाऽनशनीहलोकपरलोकगतान् कामभोगानाकाङ्क्षतीति, न चेहपरलोकाशंसाऽतिचारान्तर्गत्वादयं पृथग् Jain Educnternational For Personal & Private Use Only ||३०५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334