Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 327
________________ नवपद द्वार त्तिःमू.देव. व. यशो 1३०४|| आलोएई सम्मं वीसं वरिसाइ एवमकलंकं । चरिउ सावयधम्म मासं जाव य कयाणसणो ॥४२।। मरिऊण पढमकप्पे अरुणवडिसयविमाणमझमि । यतना उप्पन्नो कयपुन्नो पलियचउक्काउओ देवो ।।४३।। सुरभवउचिए भोए भोत्तुं तत्थाउयक्खए चविउं । जाओ महाविदेहे सिज्झिस्सइ खीणकम्मो सो ॥४४।। समाप्तं महाशतकाख्यानकम् ।। Kगा.१३४ नन्दजीवमण्डूककथानक तु प्राक् सम्यक्त्वाधिकारे-“सम्मत्तपरिभट्ठो'' इत्यादिगाथायामुक्तमिति नोच्यते, दाान्तिकयोजना तु द्वयोरपि कथानकयोरेवं कार्या, यथा महाशतकथावकस्यानशनव्यवस्थितस्य रेवत्या स्वभार्यया विषयसुखसेवाप्रार्थनया क्षोभ्यमाणस्यापि न क्षोभो बभूव, किन्तु तीर्थकरादेशेन समागत्य गौतमगणधरेण शापप्रदानविषये प्रेरितस्य तथेत्यभ्युपगम्यालोचनाप्रतिक्रमणाभ्यां नि:शल्यीभूतस्य पण्डितमरणं जातिशतानि छित्त्वा सद्गतिसाधकं समनि, यथा च नन्दजीवस्य मण्डूकभवे वर्तमानस्य समुत्पन्नजातिस्मरणस्य श्रीवर्द्धमानस्वामितीर्थकरवन्दनाय प्रचलितस्यान्तराले एव तुरगखरखुराक्रान्तकायस्य मनसैव समुच्चारितव्रतस्य व्युत्सृष्टाष्टादशपापस्थानस्य समं चतुर्विधाहारेण त्यक्तबाह्याभ्यन्तरवस्तुप्रतिबन्धस्य विधिना समाधिमरणं दुर्गतिप्रविच्छेदेन सुगति जनयामास, तथाऽन्यस्यापि विधिवत्प्राणप्रहाणं जन्मपरम्पराच्छेदहेतुर्भवति सुगतिसाधकं चेति, एवं च विज्ञाय विवेकिभिनि:शेषमरणपरिहारेण पण्डितमरण एव यतितव्यमित्युपदेशगर्भ: प्रस्तुतगाथापरमार्थ इति ।। उक्तं गुणद्वारम्, अधुना यतना कथ्यते सुइपाणगाइ अणुसट्ठिभोयणं तह समाहिपाणाई। धीरावणसामग्गीपसंसणं सद्धवट्ठा ॥१३४॥ श्रवणं श्रुतिः, सा च प्रस्तावादागमस्य, पानकं-पेयद्रव्यमादिशब्दाच्चूष्यलेह्यादिग्रहः, श्रुतिरेव पानकादि: श्रुति पानकादि, प्रतिपन्नानशनस्य हि विविधचित्तविश्रोसिकापरिहारार्थ यनिरन्तरं जिनागमसमाकर्णनं तच्छ्भपरिणामालादहेतुत्वात्पानकादीवेत्यर्थः, तथा 'अणुसट्ठिभोयणं' ति अनुशासनमनुशिष्टि:सुभटदृष्टान्तेनोत्साहनं, यथा पुण्यभाक् त्वं येन मोहमल्लं निहत्यैतावत्याराधनाजयपताका स्वीकृता, यथोक्तम्-"सुहडोव्व रंगमज्झे, धीबलसन्नद्धबद्धकच्छाओ। हंतूण मोहमल्लं हराहि आराहणपडागं ॥१॥" तथा-"उव्वेलेऊण बला बावीसपरीसहे कसाए य । हंतूण रागदोसे, हराहि आराहणपडागं ॥१॥" सैव भोजनम्-अशनं परिपुष्टिहेतुत्वादनुशिष्टिभोजनं, 'तथा' तेन प्रकारेण समाधिनिमित्तं पानादि समाधिपानादि, पीयत इति पानं-द्राक्षापानकादि आदिशब्दादाहारादिग्रहः, तत्र येन पानकद्रव्येण दत्तेनानशनिन: शारीरदाहाद्युपशमो भवति विरेकेण च ॥३०४|| कायशुद्धिः तद् द्रव्यतो देहपीडापगमहेतुत्वाद्भावतश्चातदिनि शकारणत्वात् समाधिपानकं, समाध्याहारस्तु यस्तृडायुपशमक: प्रत्याख्यातुरिष्टश्च सय Jain Educk m ational For Persona 5 Private Use Only MAbrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334