Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 333
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥३१० ॥ देवगुप्तः ॥ ५ ॥ अपि च यं वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्धसूरिः स्वपदे विधातुम् । श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनस्य मध्ये ||६|| तद्वचनेनारब्धा तस्यान्तेवासिना विवृतिरेषा । तत्रैवाचार्यपदं विशदं पालयति सन्नीत्या ||७|| लोकान्तरिते तस्मिंस्तस्य विनेयेन निजगुरुभ्रात्रा । श्रीसिद्धसूरिनाम्ना, भणितेन समर्थिता चेति ॥ ८॥ उपाध्यायो यशोदेवो धनदेवाद्यनामकः । जडोऽपि धाष्टर्यतश्चक्रे, वृत्तिमेनां सविस्तराम् ||९|| एकादशशतसंख्येष्वब्देष्वधिकेषु पञ्चषष्ट्येयम् अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥ १० ॥ श्रीचक्रेश्वरसूरिमुख्यविबुधैः सङ्घप्रधानैस्तदा, साहित्यागमतर्कलक्षणधरैः संशोधिताऽत्यादरात् । वृत्तिस्तावदियं भवत्वविरतं पापठ्यमाना बुधैर्यावन्मेरुशिखेह पण्डकवने भ्राजिष्णुराभासते || ११|| प्रत्यक्षरं निरूप्यास्या, ग्रन्थमानं सुनिश्चितम् । अनुष्ठुभां सहस्राणि नव पञ्च शतानि च ॥ १२ ॥ ।। ग्रन्थागम् ९५०० ।। । इति यशोदेवोपाध्यायरचितबृहद्वृत्तियुतं नवपदप्रकरणम् समाप्तम् ।। इंति श्रेष्ठिदेवचंदलालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थांकः ७३. Jain Educatimational ॥ इति श्रीयशोदेवोपाध्यायरचितबृहद्वृत्तियुतं नवपदप्रकरणं समाप्तम् ॥ ॥ इति श्रेष्ठि देवचन्द लालभाई जैन पुस्तकोद्धारे ग्रन्थांक: - ७३ ।। For Personal & Private Use Only प्रशस्ति ॥३१०॥ www.brary.org

Loading...

Page Navigation
1 ... 331 332 333 334