Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति: मू. देव.
वृ. यशो ॥ २३५॥
राज्ञः पुरोहितः । अत्यन्तं स्नेहसंपन्नो, ब्राह्मणः कपिलाभिधः ॥ ७१ ॥ कपिलाख्या च तद्भार्या श्रुत्वा सा गुणकीर्त्तनम् । स्वभर्तुरन्तिके जाता, साऽनुरागा सुदर्शने ॥ ७२ ॥ रहः कदाचिदालोक्य, स्ववेश्मनि सुदर्शनम् । निन्ये स्वभर्तुरातङ्ककथनच्छद्मना ततः ॥ ७३ ॥ अभ्यन्तरापवरिकां, प्रविश्य तमुवाच सा । स्वामिन् ! प्राप्तो बहोः कालात्, समयोऽयं मनोरथैः ॥ ७४ ॥ यत्रागमनं भवतः सम्पन्नं तमिह सफलयेदानीम् । मम विरहदग्धदेहं निजसङ्गजलेन निर्वाप्य ॥७५॥ श्रुत्वेदृशं वचस्तस्या, अनुरागेण निर्भरम् । आसन्नलब्धप्रतिभः सोऽभ्यधादिदमुत्तरम् ॥ ७६ ॥ किं त्वया न श्रुतं भद्रे !, षण्ढोऽपि यदहं किल । नरवेषेण तिष्ठामि, मायया मुग्धवञ्चकः ॥७७॥ ततो निवृत्तरागाऽसौ, भट्टिनी तं व्यसर्जयत् । सम्प्राप्तः स्वगृहे जातो, गाढं दीक्षाभिलाषुकः ॥ ७८ ॥ संजायते न चाद्यापि धर्माचार्यादिमीलकः । एवं दिनेषु गच्छत्सु राज्ञोद्याने कदाचन ॥ ७९ ॥ प्रारब्ध उत्सवः कोऽपि तत्राहूतः सुदर्शनः । कपिलश्च सपत्नीकोऽभयादेवीमनोरमाः ||८०|| स्वस्वपरिवारवाहनसमन्विताः सर्व एव संमिलिताः । तत्र सपुत्रां दृष्ट्वा मनोरमां कपिलया भणितम् ॥ ८१ ॥ सम्मुखमभयादेव्या: स्वामिनि ! समुपैति केयमिह देवी। सुरकुमरमिवोत्सङ्गे सुरूपमाबिभ्रती बालम् ॥८२॥ सच्छत्रचामरादिप्रवरविभूत्यन्विना स्वरूपेण । निर्जितसुरेन्द्ररामा रमणीयाभरणवेषधरा ।। ८३ ।। अभयादेव्या गदितं जाया सुदर्शनस्येयं, भद्रे ! नाम्ना मनोरमा । योऽयमङ्कगतोऽमुष्या, सोऽनयोरेव पुत्रकः ॥८४।। कपिलोवाच नो देवि !, श्रद्दधेऽहमिदं वचः । यतः सुदर्शन: षण्ढः, कथं पुत्रस्ततो भवेत् ? ।। ८५ ।। देव्योदितं कथं भद्रे !, भवत्येदमबुध्यत ? ततोऽसौ कथयामास, स्ववृत्तान्तं यथास्थितम् ||८६ ॥ हसित्वाऽभिदधे राज्ञी, मुग्धे ! त्वं विप्रतारिता । स्वदाररतिना तेन, परदारविवर्जिना ॥ ८७॥ तथाहिरूपेण सूर्पकारातिर्यथाऽनेन पराजितः । तेजसा च दिवानाथो, वपुः कान्त्या निशाकरः ॥८८॥ गाम्भीर्येण चाम्भोधिः, स्थैर्येण गिरिनायकः । तथा कथं त्वयैतस्य षण्ढत्वं वद कल्पितम् ? ॥ ८९ ॥ एषाऽपि या त्वया दृष्टा, पत्येतस्य मनोरमा । नाम्ना न नाम सद्भूतैर्गुणैरपि मनोरमा ॥९०॥ परपुरुषगन्धमिच्छति नेयं स्वप्नेऽपि तेन संभाव्या । न सुदर्शनं विनाऽस्याः पुत्रोत्पत्तिः कदाचिदपि ॥ ९१ ॥ तस्माच्छठोत्तरेणैव त्वां चक्रेऽसौ निरुत्तराम् । एवंविधार्थवैदग्ध्यं ब्राह्मणीनां क्व वा भवेत् ? ॥ ९२ ॥ एवमाभाषितोवाच साऽसूयागमानसा । जाने तवापि पाण्डित्यमेनं कामयसे यदि || १३|| साऽब्रवीन्निजबुद्ध्याऽहं कामयिष्ये न चेदमुम् । मरिष्यामि तदाऽवश्यं, प्रतिज्ञातमिदं मया ।। ९४ ।। आकारिता ततो धात्री स्वावासगतयाऽनया । पण्डिताख्या तदग्रे च, स्वाभिप्रायः प्रकाशितः ।। ९५ ।। तयाऽभाणि त्वया पुत्रि !, न सुन्दरमिदं कृतम् । अविज्ञायैव यत्तत्त्वं प्रतिज्ञा महती कृता ॥ ९६ ॥ स महात्मा यतो वत्से !, मन्यते परयोषितम् । मातरं वा स्वसारं वा तन्मुञ्चेमं कदाग्रहम् ॥९७॥ गृहीत्वा सा ततो रज्जुं, बभाण कुरु पाशकम् । प्राणैः
For Personal & Private Use Only
Jain Educatrnational
॥२३५॥
www.brary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334