Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥२३७॥
सर्वमेवाहम् । सुन्दर ! दास्ये, भवते, ज्ञास्यति न च कोऽपि राजादि ।।२५।। उक्तोऽप्येवं मौनं मुमोच न यदा तदाऽऽह रोषेण । मामभ्युपैहि नो चेद्रक्ष्यसि यत्कारयिष्यामि ।।२६।। इतश्चनृपतिगेंहमुद्यानात्समुपेयिवान् । तत् ज्ञात्वा यच्चकारैषा, तदिदानी निबोधत ।।२७।। दम्भेन तया स्वयमेव कररुहैर्निजशरीरमुल्लिख्य । पूत्कृतं निघृणया यथा प्रविष्टोऽत्र जार इति ।।२८।। शब्दश्रवणानन्तरमारक्षिजना: सरोषमायाताः । क्वासाविति जल्पन्तो, ददृशुस्तं कुट्टयामासुः ।।२९।। ज्ञातस्तैश्च सुदर्शनोऽयमिति धिक् पृष्टः प्रविष्टः कथं ?, न ब्रूते नृपतेर्निवेदितमसौ ब्रूते KA पुन: पृच्छतः । नो चेदानयतेह येन सकलं जानेऽहमुत्क्षिप्य तैरानीतश्च सविस्मयेन पठितं भूपेन वृत्तं नवम् ।।३०।। यदि किरति कुकूलांश्चन्द्रमा: शीतवर्त्तिर्यदि च हिमसमूहं दाहको दाववह्निः । यदि च सुरगिरीन्द्र: कम्पते निष्पकम्पो, ननु जगति तदास्तां सर्ववस्तुष्वनास्था ।।३१।। यत:पृष्टोऽसावनुकूलचारुवचनैर्भूपेन भो ! भो ! भवान, देव्या कि प्रविवेशितोऽत्र ? यदिवा श्रेष्ठिन् ! प्रविष्ट: स्वयम् ? । ग्राह्यं ते वचनं स्त्रियास्तु न मया सद्भावमावेदय, प्रदत्तं भद्र ! तवाभयं खलु मया चेत्सत्ययमाभाषसे ।।३२।। दण्ड्यन्ते निश्चितं सर्वे, देवीधात्रीमहल्लका: । सत्योक्ताविति संचिन्त्य, मौनमास्थाय स स्थितः ।।३३।। राज्ञोदितं ततो रोषात्, नन्वयं दम्भमाश्रितः । शूलाग्रे प्रोयतां पश्चाद्दष्टैर्नीत: पुराबहिः ।।३४।। प्रवादश्च पुरे जातो, राज्ञा नाचरितं शुभम् । भाव्यमत्र विधानेन, नैवंकारी सुदर्शनः ॥३५।। इतश्च-तं वृत्तान्तं समाकर्ण्य, वज्रपातोपमं जनात् । भार्या मनोरमा तस्य, प्रलापानकरोत् बहून् ।।३६।। तदन्ते पुष्पधूपाद्यैः, पूजां कृत्वाऽर्हतः पराम् । कायोत्सर्गे स्थिता भक्त्या, चैत्यवन्दनपूर्वकम् ।।३७।। क्षणादासनकम्पेन, तत्प्रणिधानशुद्धितः । तदने देवता स्थित्वाऽब्रवीत्किं क्रियतां तव ? ।।३८।। कायोत्सर्ग समुत्सार्य, सा प्रोवाच महासती । मोचयामु पति देवि !, कलङ्काच्चेदयं शुभः ॥३९।। ततोऽसौ देवता शीघं, दर्शनोत्सर्पणप्रिया । शूलं सिंहासनं चक्रे, गत्वा रत्नोपशोभितम् 18 | ॥४०|| आरक्षितास्तु तं क्षुद्रा, जघ्नुः खड्गादिभिस्ततः । चक्रे सा हारकेयूरकुण्डलादिविभूषितम् ।।४१।। अत्रान्तरे-तथा गुदर्शनं दृष्ट्वा , देवरूपोपमं जनाः । धर्मो जति नाधर्म, इत्युक्त्वा तं वन्दिरे ।। ४२।। राजाऽपि विस्मितमनाः श्रुत्वा लोकस्य भाषितं तादृक् । पश्चात्तापोपगतो व्यचिन्तयन्नोचितं विहितम् ॥४३॥ आगत्य तत्समीपं प्रणम्य विनयेन मर्षणां कृत्वा । नगरमहोत्सवपूर्वं महाविभूत्या द्विपारुढम् ।।४४।। प्रावेशयत्स्वनगरं गजात्समुत्तार्य निजगृहस्यान्तः । सिहासनोपवेशितमथ तं नृपतिर्बभाणैवम् ।।४५।। यत्ते मयाऽपराद्धं पापेनालं विवेकविकलेन । ॥२३७॥ तत् क्षमणीयं गर्ग शान्तिधना येन सन्तः स्युः ।। ४६।। नेनोदितं नृपाहं सवषु प्राणिपु क्षमाशील: । किं पुनरुर्वीनाथे ? भवति परं किमपि विज्ञपये से
Xxx8
Jain Education International
For Personal & Private Use Only
KOS www.janelibrary.org

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334