Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति: पू. देव. वृ. यशो
।।२७८ ॥
वापीमध्ये, ततो भद्रया समाचार्यन्यत्र तज्जलं यावत्तावदपश्यद्विद्युदुद्योतभासुरमाभरणसमूहं, तन्मध्ये स्वाङ्गुलीयकं चाङ्गारतुल्यं, राजाऽपृच्छच्च-किमेतत् ?, भद्रावोचत् यथा शालिभद्रस्य तद्भार्याणां च यदाभरणनिर्माल्यं प्रतिदिवसमत्र निपतति तदिदं ततो विस्मितमना अहो ! प्राग्भवोपार्जितपुण्योपचयविलसितं शालिभद्रस्य यदेवं मनुष्यस्याप्यचिन्तितोपनतं सर्वं देवानुभावात्संपद्यत इत्यादि चिन्तयन् भोजितो भद्रया सपरिवारोऽनेकविधरसविशेषमनोहरमाहारजातं भूपतिः, तदनु वितीर्णानेकप्रकारताम्बूलवस्त्रालङ्कारादिपदार्थसार्थो गतः स्वावासं । शालिभद्रस्तु तत्प्रभृति संविग्नमानसो गमयामास कियन्त्यपि दिनानि, अन्येद्युश्च समाययौ तत्राप्रतिबद्धविहारेण विहरन् धर्मघोषाभिधान आचार्य:, आवासितो बाह्योद्याने, वातायनवर्ती शालिभद्रो विलोक्य तद्वन्दनाय प्रचलितमनेकलोकं पप्रच्छ स्वानुचरं, यथा-क्वायं जनसमाजो याति ?, भणितमनेन सूरिवन्दनार्थं, ततोऽसावपि जननीमापृच्छ्य जगामाचार्यसन्निकाशं, वन्दित्वा भावसारं सूरिं निविष्ट उचितदेशे शेषलोकोऽपि श्रेणिकराजप्रमुखोऽभिवन्द्य यावदुचितभूमिमाशिश्राय तावदाचार्येण धर्मलाभाशीर्वाददानपुरःसरमारब्धा धर्मदेशना, यथा-इष्टानिष्टवियोगयोगविषमग्राहादिजीवाकुले, मोहवर्तविभीषणे मृतिजरारोगादिवीच्याविले । त्राणं नान्यदहो जनाः ! निपततां सद्यानपात्रोपमं, जैनं धर्ममनन्तशर्मजनकं मुक्त्वा भवाम्भोनिधौ ॥ १ ॥ यतः अर्था अनर्थजनका क्षणनश्वराश्च, कामा विपाककटवो न चिरस्थिराश्च । देहोऽपि नित्यपरिशीलनसव्यपेक्षो, नापेक्षते कृतमुपैति विनाशमाशु || २|| तस्मादास्थां विमुच्याहो !, अर्थादिषु विनिस्पृहाः । सेवध्वं धर्ममेवैकमिति सर्वज्ञशासनम् ||३|| द्वेधा सच भवेत्साधुश्रावकस्वामिसंश्रयात् । आद्यः क्षान्त्यादिभिर्भेदैर्विज्ञेयो दशधा तयोः || ४ || अणुव्रतादिभेदैस्तु, स्थितो द्वादशधा परः । सम्यक्त्वं मूलमेतस्य, द्विविधस्यापि कीर्तितम् ॥५॥ इत्यादि, तदवसाने च लब्धावसरः सरभसमाधाय शिरसि करकमलमुकुलमिवाञ्जलिपुटं पप्रच्छ शालिभद्रो-भगवन् ! कीदृशां प्राणिनामन्यो नाथो न जायते ?, सूरिणोक्तम् सुकृततपश्चरणानां सज्ज्ञानध्यानशीलनिष्ठानाम् । भवचेष्टामुक्तानां नान्यः संपद्यते नाथः ।। १।। | शालिभद्र उवाच - यद्येवं जननीमापृच्छ्य युष्मदन्तिके मयाऽप्येवंविधेन भाव्यं, सूरिणोदितं मा प्रतिबन्धं कार्षीः, ततः प्रणम्याचार्यं गतोसौ स्वभवनं, शेषलोकस्तु स्वावासं प्रति जगाम, शालिभद्रेणापि भणिता माता यथाऽम्ब ! श्रुतोऽद्य मया धर्मघोषसूरिसमीपे धर्म:, तदिच्छामि त्वदनुज्ञया तं कर्त्तु, सावित्र्या भणितं कुरु वत्स ! यथाशक्त्या, गृह एव व्यवस्थितः । कस्ते श्रेयः प्रवृत्तस्य प्रतिपन्थी भविष्यति ? || १ || शालिभद्रोऽभ्यधादम्ब !, गृहावस्थितिशालिनाम् । कीदृश: संभवेद्धर्म:, प्रतिबन्धममुञ्चताम् ? || २ || मात्रोक्तं सत्यमेतत्, किन्तु जात ! दुष्करो भवादृशां गृहत्यागो, यतो देवभोगलालितो भवान्, कथमिव मानवीयमन्तप्रान्तानुचितमाहारमाहारयिष्यति ?, यदि चैष निर्बन्धस्तदा परिकर्मय तावच्छरीरं परित्यजैकैकतूलिकां
Jain Educatenational
For Personal & Private Use Only
शालिभद्र चरितम्
॥२७८॥
www.brary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334