Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति: मू. देव. वृ. यशो
।। २९७ ।।
गुप्तनिर्गमप्रवेशं जतुगृहं, विवाहानन्तरं च तत्र सुखप्रसुप्तस्याग्निदानेन जनालक्षितमेव यथाचिन्तितकार्यमस्य भविष्यति, एवं मन्त्रयित्वा प्रारब्धा महाराजदुहितुः कुमारपाणिग्रहणनिमित्तं समग्रसामग्री । इतश्च धनुर्मन्त्रिणा ब्रह्मदत्तकार्यावहितेन विज्ञप्तो दीर्घराजो, यथा- अयं मत्पुत्रोवरधनुः सम्प्रति राज्यकार्यचिन्तनसमर्थो वर्त्तते, तदयमेव चिन्तयिष्यति वः प्रयोजनानि, अहं तु किमपि तीर्थं गत्वा परलोकहितमाचरामि तदनुमन्यस्व मां तेन कैतवेनोक्तम्- अलमन्यत्र प्रवासेन, अत्र स्थित एव दानादिना धर्मं विधेहि, ततोऽसौ तद्वचः प्रतिपद्य गङ्गानदीतीरे महतीं प्रपां कारितवान् तत्र दीनानाथपथिकपरिव्राजकादीनां दानं प्रवर्त्तयामास, दानमानोपचारगृहीतैश्च प्रत्यायितपुरुषैर्यावज्जतुगृहं प्राप्ता तावत्खानिता द्विगव्यृतप्रमाणा सुरङ्गा, कृतो वरधनुःपुत्राग्रतो रहस्यभेदः, इतश्च- विविधनेपथ्यपरिजनान्विता तत्पुरमनुप्राप्ता सा वधूः, प्रवेशिता महाविभूत्या यावन्निवर्त्तितं पाणिग्रहणं, तदनन्तरं विसृज्य जनसमूहं प्रवेशितः कुमारः सवधूकः कतिपयपूर्जनानुगतो जतुगृहं तत्र स्थितो वरधनुं मन्त्रिपुत्रं विमुच्य क्षणमात्रप्रहितपरिजनो यावदासाञ्चके तावत्त्रियामायामद्वयातिक्रमसमये कथञ्चित्प्रदीपितं समन्तात्तद्वासभवनम् उच्छलितो हाहारवः, ततः किं कर्त्तव्यमिति मूढमानसेन पृष्टः कुमारेण वरधनुःकिमेतदिति, तेनोक्तं यथा सा राजदुहिता लेखप्रेषणेन मत्पित्रा निवारिता, इयं चान्या काचित्, तदस्यां प्रतिबन्धं परिहृत्य झगित्युत्थायात्र जतुगृहे पार्ष्णिप्रहारं प्रयच्छ, येनेत: सुरङ्गद्वारेण निर्गच्छाम:, तेन च कृतं तद्वचः, ततो द्वावपि निर्गतौ सुरङ्गया, प्राप्तौ द्वारदेशं, इतश्च धनुर्मन्त्रिणा प्रागेव द्वौ प्रत्यायितपुरुषौ सुरङ्गद्वारे तुरङ्गमाधिरूढौ धृतावभूतां, ताभ्यां च वरधनो: सङ्केतं मीलयित्वा द्वावपि तौ समारोपितौ स्वाश्वयोः, प्रवृत्तौ गन्तुं क्रमेण तौ (गतौ) पञ्चाशद्योजनमात्रां भुवं दीर्घाध्वखेदक्षीणौ निपतितौ तुरङ्गौ, ततः पादाभ्यामेव गच्छन्तौ प्राप्तौ कोट्टाभिधानं ग्रामं तद् बहिः कुमारेण भणितो वरधनुः, यथा बाधते मामतीव क्षुधा, दृढं परिश्रान्तश्चास्मि तच्छ्रुत्वा वरधनुस्तत्रैव तं संस्थाप्यैकस्य वृक्षस्य बहलच्छायायां स्वयं गत्वा ग्राममध्यमानीय ततोऽपि नापितं मुण्डयित्वा कुमारस्य शिरः परिधापयामास कषायवस्त्राणि चतुरङ्गलप्रमाणपट्टबन्धेन बबन्ध च श्रीवत्सालङ्कृतमस्य वक्ष:स्थलं, आत्मनाऽपि विहितो वेषपरावर्त्तः, ततो द्वावपि प्रविष्टौ ग्रामाभ्यन्तरं, अत्रान्तरे निर्गत्यैकद्विजवरगृहादेकपुरुषेणोक्तौ स्वागतं युवयोः ?, आगम्यतां मन्दिरं भुज्यतां चेति, तद्वचनानन्तरं गतौ तौ तद्गृहं, विहितराजानुरूपप्रतिपत्ती भुक्तौ च कृताचमनादिव्यापारयोः सुखासनस्थयोश्च तयोस्तत्स्थानवर्त्तिनीं बन्धुमतीनामिकां कन्यामुद्दिश्यैका प्रवरमहेला कुमारमस्तके प्रक्षिप्याक्षतानवादीत् पुत्र ! त्वमस्याः कन्यायाः प्राप्तो वर इति, तच्छ्रुत्वा वरधनुनाऽवाचिकिमेतस्य मूर्खबटोर्निमित्तमात्मा खेद्यते ?, गृहस्वाम्यवादीत् - मैवं वोचः, प्रथममेव यतोऽस्माकं नैमित्तिकेनादिष्टमास्ते, यथा-पट्टच्छादितवक्षा उपेत्य
For Personal & Private Use Only
Jain Education International
||२९७॥
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334