Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 316
________________ केवलं तन्मध्ये द्वयोर्मुनिं प्रति किञ्चिज्जुगुप्सापरिणामो बभूव, अपरित्यक्तसम्यग्दर्शनानां च कालान्तरे समजनि परलोकगमनं, ततः समुत्पेदिरे ते वैमानिकसुरत्वेन, तदायुष्कावसाने च यौ जुगुप्सापरौ बभूवतुस्तौ देवलोकाच्च्युत्वा दशार्णदेशवर्त्तिनि श्रीह्रदाभिधानग्रमो शाण्डिल्यनाम्नो ब्राह्मण यशोमत्यभिधानाया दास्या विनयादिगुणावर्जितेन तेनैव ब्राह्मणेन भार्यात्वेनाङ्गीकृताया गर्भे पुत्रयुगलत्वेनाजनिषातां उचितसमयेऽतिक्रान्तबालभावौ च कदाचित् क्षेत्ररक्षानिमित्तं गतावटवीं, तत्र न्यग्रोधपादपाधोवर्त्तिनोस्तयोरस्तं गतः सहस्रकिरण:, स्थितौ तौ तत्रैव, क्षणमात्रेण च समागतनिद्रयोस्तत एव वटकोटरान्निर्गत्य दन्दशूकेन दष्ट एकस्तयोः, दष्टो दष्ट इति वदन्नुत्थितो वेगेन, द्वितीयोऽपि तद्ध्वनिप्रतिबोधितः काकोदरनिरीक्षणार्थमितस्ततो हस्तक्षेपं कुर्वाणो दष्टस्तेनैवाहिना, विषवेगाकुलितचेतनौ च पतितौ द्वावपि महीपृष्ठे, विनिस्सरग्रहललालाऽऽविलवदनबीभत्सौ च केनचिदविरचितप्रतीकारौ क्षणमात्रेण प्राप्तौ परासुतां, समुत्पन्नौ च स्वकर्मपरिणतिरज्जुसंयुतौ द्वावपि कालिञ्जराभिधाननगवरे कस्याश्चिद्वनमृग्या मृगशावयुगलतया, समुपारूढप्रौढवयसोश्च क्रमेण पूर्वभवसहवाससमुपजातप्रीतिप्रकर्षयोः समं चरतोः समं निषीदतोः समं शयानयोः समाजगाम कदाचिदुष्णकालः, तीव्रतृष्णोपतातापप्यमानौ च जलपिपासया समागतौ वेत्रवतीसरितं, सर्वतस्तरलतारकमवलोकयन्तौ तस्याः सलिलमापीय समुत्तरन्तौ निविडवनगहनान्तरिततनु भकेनैकेन पुरातनवैरिणेव कर्णान्ताकृष्टचण्डकोदण्डदण्डोन्मुक्तैकबाणेन विद्धौ मर्मप्रदेशे, प्रहारवेदनाविधुरशरीरौ च परित्यक्तौ प्राणैः, आर्त्तवशेन भयो संजाता मृतगङ्गाहृदोपकण्ठवासिन्यां एकस्यां हंसिकायां हंसयुग्मभावेन, तथैव यौवनमनुप्राप्तौ तस्मिन्नेव महाहदे क्रीडन्तौ विचित्रक्रीडाभिः अपरस्मिन्नहनि तथा विधभवितव्यताप्रेरितेन केनचित्पापकर्मकारिणा शाकुनिकेन समागत्य झगित्येवैकपाशावपाशितौ गृहीत्वा कराभ्यां चलितकन्धरं व्यापादितौ सन्तौ काशीविषये बाणारसीनगर्यां महाधनसमृद्धस्य भूतदत्ताभिधानमातङ्गनायकस्याणहिकाभिधानभार्यायां बभूवतुर्यमलपुत्रत्वेन, रचितचित्रसंभूतिनामकौ च क्रमेण प्रवर्द्धमानशरीरौ तथैवातिप्रीतिसमन्वितौ संपन्नावष्टवार्षिकौ तस्यां च नगर्यां तदाऽमितवाहनो राजा, तेन कस्मिंश्चिन्महत्यपराधे संभावितो नमुचिनामा मन्त्री, तीव्ररोषतस्तस्यैव भूतदत्तचाण्डालस्य प्रच्छन्नं वधाय समर्पित:, ततः संजाते सकललोकलोचनबलापहारिणि बहलान्धकारे नीत्वा प्रच्छन्नपुदेशे एनं बभाण भूतदत्तस्तनयस्नेहेन, यथा-भोः ! भोः ! त्वद्वधायादिष्टोऽहं राज्ञा, केवलं यदि मदीयपुत्रको गुप्तभूमीगृहप्रविष्टो गीतादिकला अविकला ग्राहयसि तदा करोमि भवतोऽहं प्राणरक्षाम्, अन्यथा न ते जीवितमस्ति ततो जीवितार्थिना प्रतिपन्नमनेन तद्वचः, समर्पितौ तनूजौ प्रवृत्तौ ग्राहयितुं कलाः, अणहिका च मदङ्गजोपाध्यायोऽयमिति बहुमानेन स्नानभोजनादिशरीरस्थितिं निल्नमेव निर्वर्त्तयितुमारेभेऽस्य, गच्छत्सु केषुचिद्दिवसेषु दुर्दमतया हृषीकतुरङ्गमानां Jain Education International For Personal & Private Use Only नवपदत्ति: पू. देव. व. यशो । २९३ ।। ॥२९३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334