Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
वृत्ति: मू. देव. वृ. यशो
।। २९१ ।।
गृधादितुण्डखण्ड्यमानस्य कस्यचिन्मरणं तद्गृधपृष्ठमरणं, 'मरणं भत्तपरिण्ण'त्ति भक्तपरिज्ञा - त्रिचतुर्विधाहारत्यागो, मरणशब्दस्याग्रे पाठात् तया मरणं भक्तपरिज्ञामरणं, एतच्च नियमात्स्वत: परतश्च प्रतिकर्मसमन्वितमार्थिकादीनामपि साधारणं-"सव्वाविय अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा । सव्वेऽवि देसविरया पच्चक्खाणेण उ मरंति ||१||" इत्यत्र प्रत्याख्यानशब्देन भक्तपरिज्ञाया एवोक्तत्वात् 'इङ्गिणि' त्ति इङ्गिनीमरणं यदिङ्गितप्रदेशे चतुर्विधाहारवर्जनेनान्यनिरपेक्षमात्मनैवोद्वर्त्तनादि कुर्वतो विशिष्टतरधृतिसंपन्नस्य मरणं, 'पाओगमणं व' त्ति 'पाओग' त्ति पदैकदेशे पदसमुदायोपचारात् पादपस्य-तरोः उपगमनं समीपगमनं निश्चेष्टताधर्मेण यत्र तत्पादपोपगमनं तच्च तन्मरणं च पादपोपगमनमरणं, प्रथमसंहननवर्त्तिनो निष्प्रतिकर्मणो विशिष्टतमभृत्यध्यासितस्य निमेषादिचेष्टाविकलतया स्वयं तरोरिव पतितस्य यन्मरणं तत्पादपोपगमनमरणं, इदं च द्वेधा- निस्सार्यनिस्सारिभेदात्, 'ज्ञात्वा' अवबुध्य 'तत्र' तेषु मध्ये 'अन्तिमाति' अन्त्यानि मरणानि 'कर्त्तव्यानि ' विधेयानि कर्त्तव्यशब्दो गाथापर्यन्तवर्त्त्यप्यत्र योज्यते, ननु कर्त्तव्यमित्येकवचनान्तं तत्कथं मरणानीति बहुवचनान्तेन योज्यते ?, सत्यं, प्राकृते लिङ्गविभक्तिवचनव्यत्ययस्येष्टत्वान्न दोष:, तान्येव नामत आह- पायवइंगिणिमरणं भत्तपरिण्णं च' त्ति तत्र 'पायव 'त्ति पादपोपगमनमिङ्गिनीमरणं भक्तपरिज्ञा चेति एतानि च प्राग्व्याख्यातान्येवेति गाथार्थ: ।। तृतीयद्वारमधुना - संलेहाइव्वं, वियडणमुच्चारणं तह वयाणं । तिविहं चउव्विहं वा, आहारं वोसिरे सव्वं ॥१३१॥
संलिख्यते - तनूक्रियते शरीरकषायादि यया सा संलेखना सा चोत्कर्षतो द्वादशसंवत्सरा विज्ञातमरणस्य भणिता, यदुक्तम्- "चत्तारि विचित्ताई विगईनिज्जहियाई चत्तारि । संवच्छरे य दुन्नि य एगंतरियं च आयाम ॥१॥ चत्वारि वर्षाणि यावद्विचित्राणि तपांसिउपवासषष्ठाष्टमादीनि प्रथमं करोति, अत्र च पारणके सर्वकल्पं पारयतीति सम्प्रदायः, तदग्रे चत्वारि वर्षाण विकृतिरहितानि विचित्रतपांसि विधत्ते, पारणके विकृतिं न गृह्णातीत्यर्थः, तदुपरि संवत्सरद्वयमेकान्तरिताचाम्लैस्तिष्ठति, चतुर्थं कृत्वा काज्जिकाचामाम्लं करोतीत्यर्थः, 'नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अण्णेऽवि य छम्मासा होइ विगिट्ठे तवोकम्मं ॥ २॥ एकादशसंवत्सरस्याद्यान् षण्मासान् यावन्न अतिविकृष्टम् अष्टमादि तपश्चरति, चतुर्थं षष्ठं वा विधाय परिमितेनाचामाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अन्यानपि चाग्रेतनान् षण्मासान् संलेखनाकर्तुर्भवति विकृष्टम् अष्टमादितपञ्चरति, पारणके त्वाचामाम्लमेव । “वासं कोडीसहियं आयामं कट्ट आणुपुवीए । ४ ॥ २९१ ॥ गिरिकंदरं च गंतुं पाउवगमणं अह करेइ ॥ ३॥ " द्वादशवर्षे तु कोटीसहितं निरन्तरमेकान्तरितं वाऽऽचाम्लं कृत्वा क्रमेण यद्यन:सारपादपोपगमनं
Jain Educat national
For Personal & Private Use Only
wwwbrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334