Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 310
________________ K वासरा:, वैरसेनचक्री च लोकान्तिकदेवप्रतिबोधित: सांवत्सरिकमहादानपूर्वं ज्येष्ठपुत्रं पुष्कलपालं राज्ये निवेश्याङ्गीकृतसर्वसङ्गविरति: समुत्पत्रकेवलज्ञानो नवपदवृत्ति:मू.देव धर्मतीर्थं प्रवर्तयामास, वज्रजकुस्य तु जनितनिजगुणजनमनोविस्मय: समजनि तनयः, इतश्च-कदाचित्पुष्कलपालस्य विसंवदिता: केचित्सामन्ताः, तत: पुष्कलपालेन वज्रजङ्घस्य दूत: प्रहितो यथा भवता श्रीमतीसमेतेन शीघ्रमागन्तव्यं, तदनन्तरं सोऽपि तमर्थं दूतादवगम्य प्रचुरतरस्कन्धावारसहित: स्वपुत्रं ॥२८७॥ नगरे संस्थाप्य प्रतस्थौ समं श्रीमत्या तदभिमुखं, तदन्तराले च शरवणमार्गेण गन्तव्यं, तस्मिंश्च गुणदोषविज्ञायकलोकेन निषिद्धो वज्रजचो, यथाज्ञ दृष्टिविषा: सर्पाः सन्ति, तस्मादनेन पथा न गन्तव्यं, पश्चादसौ परिरयेण तान् परिहरन् क्रमेण प्राप पुण्डरीकिणी, विज्ञाततदागमनाश्च तत्सामन्ता: प्रणता K भयेन पुष्कलपालस्य, सोऽपि गृहागतयोस्तयोर्विधायोचितप्रतिपत्तिं प्रीत्या धृत्वा च कतिचिद्दिनानि तौ विससर्ज, स्वपुराभिमुखं व्रजन्तौ च क्रमेण प्राप्तौ शरवणासन्नदेशं, लोको बभाण-सम्प्रति शरवणमध्येनापि गच्छतां न कश्चिदपायो, यतस्तत्र कस्यचिन्महामुनेः केवलज्ञानमुत्पन्नं, वस्मिंश्च देवसन्निपाते तदुद्योतेन प्रतिहतं पन्नगानां दृष्टिविषं, तच्च श्रुत्वा वज्रजड्डश्चलितस्तेनैव पथा, ददर्श तत्रावासितौ सागरसेनमुनिसेनानगारौ निजभ्रातरौ प्रवरसाधुपरिवारौ, यौ च वासभवनमविकलतपोलक्ष्म्या: आश्रयः प्रसन्नताया: स्थानं सौम्यतागुणस्य, ववन्दे च सपरिवारो भावसार, भिक्षावेलायां च विशुद्धानपानादिभिः प्रतिलाभयामास स्वावासमायातौ, मध्यन्दिनावसाने च तयोरेव महातपस्विनोर्गुणाननुचिन्तयन् अहो महानुभावावेतौ मद्भातरौ वयमपि कदा विमुच्य शि राज्यविस्तरमेनां मुनिवृत्तिमङ्गीकृत्य नि:स्पृहमानसा इत्थं विहरिष्याम इति पर्यालोचयन्मुहुर्मुहुर्दत्तप्रयाणक: क्रमेण प्राप्तः स्वनगरं, इतश्च तत्तनूजेन निजनगरानिर्गतयोः पित्रोर्दानसन्मानादिना वशीकृत्य भृत्यवर्ग प्रयुक्तस्तदागमनकाले तद्वासगृहे विषघूपः, एनं च व्यतिकरमजानानो वज्रजङ्घः समं श्रीमत्याऽतिक्रान्ते प्रदोषे विसृष्टपरिजनोऽनुस्मरन् साधुगुणान् विश्रान्तः तत्र, विषधूपविह्वलितचेतनश्च तत्सहित एव प्राप्त: पञ्चत्वं, समुत्पन्नस्त्रिपल्योपमायुष्क उत्तरकुरुषु सहैव तया मिथुनत्वेन, तदवसाने च मृत्वा सौधर्मदेवलोके देवभावेन द्वावपि जातौ पूर्वानुवेधेन, तत्रापि महती प्रीतिरासीत्, पल्योपममात्र चायुः, तत्क्षये च वप्रावतीविजयवर्त्तिन्यां प्रभङ्कराभिधानपुर्यां वज्रजङ्घजीव: सुविधिनाम्नो वैद्यस्याङ्गजोऽभयघोषाभिधानोऽजनि, श्रीमतीजीवस्तु श्रेष्ठितनयः केशवनामा संजातः, तत्रापि तथैवात्यन्तिकी स्नेहवृद्धिर्बभूव, तयोश्चान्येऽपि तस्मिन् भवे चत्वारो वयस्या राजाऽमात्यश्रेष्ठिसार्थवाहपुरा बभूवुः, ते च कदाचिदेकस्य कृमिकुष्ठदोषोपद्रुतस्य महामुनेः क्रियां कृत्वा तन्मूलपुण्योपार्जनेन पश्चिमवयोविरचितश्रामण्यानुभावेन च बद्धदेवायुषो मृत्वाऽच्युतकल्प इन्द्रसामानिकाः सुरा उत्पन्नाः, ततश्च्युतोऽभयघोषजीव इहैव जम्बूद्वीपे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्या वैरसेनराजस्य धारिणीदेव्या वज्रनाभनामा Jain Educati o nal For Personal & Private Use Only www.AMrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334