Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रेयांस
कुमार चरित्रं
नवपद
सुदानमहो सुदानमितिवचनम्, अवतीर्णाः, श्रेयांसगृहाङ्गणमेव केचिद् द्युसदः, संप्राप्तो विस्मितमना अन्योऽपि लोकः, पृष्टवांश्च श्रेयांसं-कथं भवता वृत्ति:मू.देव.
| विज्ञातोऽयं पारमेश्वर: पारणकविधि: ?, श्रेयांस उवाच-जातिस्मरणेन, जनो व्याजहारकीदृशमिदं जातिस्मरणं !, कथं चैतेन विदितोऽयं प्रकार: ?, व. यशो
तेनोक्तं-जातिस्मरणं तावन्मतिज्ञानविशेष:, अनेन च मयाऽष्टौ भवा आत्मीयाः स्मृताः, येषु भगवज्जीवेन सहाहं पर्यटितः, तथाहि-इतो नवमभवे ।।२८४॥ K भगवतो मम पितृपितामहस्य जीव ईशानकल्पे ललिताङ्गनामा देव आसीत्, तस्य च स्वयंप्रभाभिधाना देवी परमप्रेमपात्रं कलत्रमहमभूवं, यथा च देवी
तस्याहमभवं तथा कथयामि, तत: पूर्वभवे ह्यस्मिन् धातकीखण्डद्वीपान्तर्वर्तिपूर्वविदेहालङ्कारभूते सकलमङ्गलालये मङ्गलावतीविजये नन्दिग्रामनाम्नि ग्रामे वास्तव्यस्यैकस्य दरिद्रकुटुम्बिनो नागिलाख्यगृहपते गश्रीभार्याया: सुलक्षणासुमङ्गलादीनां षण्णां दुहितॄणामुपरि पुरोपार्जितोर्जितदौर्भाग्यसंभारवशेन सकलस्यापि स्वजनपरिजनस्यानिष्टा अत एव स्वपित्रवितीर्णनामधेयतया निर्नामिकेति लोके प्रसिद्धा पुत्रिका बभूव, तदा च कदाचित्कस्मिंश्चिदुत्सवे धनाढ्यलोकडिम्भकान् नानाविधभक्ष्यहस्तानवलोक्य तया ययाचे निजजननी-यथा ममापि किमपि मोदकादि भक्ष्यं प्रयच्छ येनाहमप्येतैर्नगरबालकै: सहाभिरमे, ततो मात्रा सकोपं त्रिवलितरङ्गितललाटपट्टां भीषणभूकुटी विरच्य हत्वा च्च कपोलदेशे पाणिना निष्काशिता सा गृहाद, उक्ता च-क्वात्र त्वद्योग्यं निराशे ! भक्ष्यमस्ति !, यद्यर्थिनी त्वमस्य तदा व्रजाम्बरतिलकं पर्वतं, येन मनोरमाभिधाने तदुद्याने प्राप्नोषि नानाविधानि भक्ष्यफलानि, तानि च खादित्वा रमस्व स्वेच्छया, न चागन्तव्यं मदीयगृहसंमुखं, यद्यायासि तदा तथा करिष्यामि यथा करिष्यमि यथा न भविष्यसि, एवं च साक्रोशमसौ निर्धाटिता रुदन्ती निःसृता गेहात्, ददर्श चाम्बरतिलकपर्वताभिमुखं व्रजन्तमनेकलोकं, जगाम तेनैव सह सा तं प्रदेशं, ततोऽसौ विलोकयामास तत्रानेकविधफलभरावनम्रपादपाकुलं गृहं शकुनिसानामावासभूमि मृगादीनामत्युच्चशिखरैर्गगनाङ्गणमिव मातुमुद्यतमम्बरतिलकाभिधानं पर्वतं, तस्मिंश्च दृष्ट्वा मनोरमोद्यानवर्तितरुनिकरफलान्याददानमनेकलोकं स्वयंपाकपतितस्वादुफलनिकरमादाय साऽपि भक्षितवती, रमणीयतया च गिरेः संचरन्ती सह जनेन तांस्तानुद्देशानश्रौषीत् कस्यापि श्रुतिमनोहरं शब्दं, तदनुसारप्रवृत्तजनेन सार्द्ध जगाम साऽपि यावत्तं प्रदेशं तावद्ददर्शापरिमितानां देवमनुष्यादीनामग्रे धर्मकथां कुर्वाणं चतुर्दशपूर्वविदं ज्ञानचतुष्टयविज्ञातप्रत्यक्षवस्तुविस्तरं चारुतरयतिपरिवारं युगन्धराभिधानं सूरिं, तत: साऽपि समं तेन लोकेन प्रणिपत्य भगवन्तं निषण्णा
ततो नातिदूरदेशे, श्रुता जीवानां बन्धमोक्षादिदेशना, कथान्तरे च पप्रच्छैषा तं महामुनि-किं मत्तोऽपि केऽपि जीवा: सन्ति दुखिन: ?, सूरिणाऽभ्यधायिKI भद्रे ! कीदृशं ते दु:खं ?, यतस्त्वं शृणोषि शुभाशुभान् शब्दान् पश्यसि सुन्दरासुन्दराण्यनेकरूपाणि जिघ्रसि प्रधानाप्रधानान् अनेकविधगन्धान्
४४४४४४
२८४॥
KOX Jain Education international
For Personal & Private Use Only
wwnayanelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334