Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 288
________________ [वपद :मू.देव. यशो २६५।। 8089028828 परमेश्वरो दृष्टिगोचरचारी संवृत्तो, न ह्यनुपार्जितप्रचुरपुण्यानामावासेषु प्ररोहन्ति कल्पमहीरुहा:, तदिदानीं शोभनतरं भवति यद्यस्मद्गृहेऽस्य पारणकं संपद्यते, ततो महती वेलां पर्युपास्य भगवन्तं गतो गृहं, तत्रापि भोजनवेलायामुपवेष्टुमना भोजनाय चिन्तितवान्-यद्येतस्मिन् काले कथमपि परमेश्वरः समायाति । भिक्षा) मद्गेहे, मया समो नापरस्तदा पुण्यैः ॥१।(गीतिः) एवं च प्रतिदिवसोपचीयमानश्रद्धाविशेषस्य निरन्तरायमाचरतोऽनुदिनं जिनवन्दनायुपचारमुपरचयतोऽनेकप्रकारं मुनिनाथदानमनोरथावली समाजगाम कार्त्तिकपौर्णिमासीदिनं, समुत्थितः प्रातरेव, गतो भगवतो वन्दनार्थं, ववन्दे भावसारं, विज्ञातवांश्च यथा-स्वामिनः पारणकदिनमद्य, ततो यदा कायोत्सर्ग पारयति तदा मम ज्ञाप्यमित्येवमर्थं धृतस्तन्निकटवर्ती पुरुषः, स्वयं प्रयातो गृहं, अत्रान्तरे पारितो भगवता कायोत्सर्गः, प्राप्त: पुरुष: श्रेष्ठिसमीपमचकथत् तद्वृत्तान्तं, प्रवर्द्धमानशुभाध्यवसायकण्डकश्चलितस्तन्निमन्त्रणाय यावज्जगाम कियन्तमपि भूभागं तावज्जलभारमेदुरोदराम्भोधरमधुरतारगर्जितमिव शुश्राव देवदुन्दुभिध्वनि, व्यज्ञासीच्च लोकाद् यथा संपन्नं भगवतोऽभिनवश्रेष्ठिगेहे पारणकं, संजातस्तत्र पञ्चदिव्यप्रादुर्भावः, ततोऽवस्थितपरिणामो व्यावृत्योपेयाय स्वमन्दिरं, तत्प्रस्तावे च समवसृतः तत्र पार्श्वनाथतीर्थकृत्सत्क: केवली, पृष्टस्तत्रत्यलोकै:- जीर्णाभिनक्श्रेष्ठिनो: क: पुण्यभागिति, केवलिनोदितं-जीर्णश्रेष्ठी, लोकैरभिहितं-कथं ?, केवली निजगाद-चत्वारो मासा अस्य जीर्णश्रेष्ठिनो भगवत्पारणकं कारयत:, अनुदिनप्रवर्द्धमानशुभपरिणामेन चानेनोपार्जितं प्रभूतपुण्यं, अद्य च यदि जिनस्य पारणकसूचकं नाश्रोष्यदेष देवदुन्दुभिध्वनि तदा क्षणेनातिविशुद्धाध्यवसायसामर्थ्येन केवलमुदपादयिष्यत्, तस्मादयमेव पुण्यभागिति ।। समाप्ते द्वे अपि यथोद्दिष्टे कथानके ।। प्रस्तुतोपसंहारश्चायं-यथाऽनयोः कुरङ्गजीर्णश्रेष्ठिनोर्दानपरिणाम: समजनि तथा दानफलमैहिकामुष्मिकं सत्कीर्तिस्वर्गापवर्गादि श्रुत्वा दृष्ट्वा चान्यस्याप्यतिथिसंविभागाध्यवसायो जायत इति ।। सम्प्रत्येतदकरणेऽविधिकरणे वा दोषद्वारम् साहूण वरं दाणं न देइ अह देइ कहवि अमणुण्णं । नागसिरी इव कडुतुंबदाणओ भमइ संसारे ॥१२३॥ ‘साधूनां' तपस्विनां 'वरं' प्रधानं द्रव्यक्षेत्रकालप्रस्तावाद्यानुरूप्येण 'दान' विश्राणनं 'न ददाति' नो वितरति, तृष्णाद्यभिभूतो य इति शेष: 'अथ ददाति कथमपि' अथो प्रयच्छति कथञ्चित् तत् 'अमनोज्ञं अननुकूलं, यदात्मनोऽनर्थहेतुतया अनुपयोगि, न रोचत इति भावः, स किमित्याह'नागश्रीरिव' सोमब्राह्मणपत्नीव 'कटूतुम्बदानत:' कटुकालाबुफलवितरणतो 'भ्रमति' पर्यटति 'संसारे' भव इति गाथाऽक्षरार्थः ।। भावार्थ: कथानकंगम्य:, तच्चेदम्-जंबूद्दीवे २ भारहखेत्तस्स मज्झिमे खंडे । चंपा नामेण पुरी सुपसिद्धा अलयनयरिव्व ।।१।। तत्थ चउद्दसविज्जाठाणविऊ भायरा परिवसंति । सुदिनप्रवर्द्धमानशुभपरिजनोदितं जीर्णश्रेष्ठा, ला. तत्प्रस्तावे च सर प्रस्तावाद्यानुरूपयाण, यदात्मनोऽनर्थहसार' भव इति R॥२६५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334