Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति: मू.देव. वृ. यशो
।। २४० ।।
मनोवचः कायानां दुष्प्रणिधानं पुनर्विवर्जयेच्छ्राद्धः, पुनः शब्दः प्रागुपात्तोऽप्यत्र योज्यते, भावना तु पातनिकयैव दर्शिता, न चैतदेव विवर्जयेत् किन्त्वन्यदपि, तथा चाह-“सामाइयसइअकरणं "ति सामायिकस्मृत्यकरणमनवस्थितकरणं च चस्य गम्यमानत्वात् ननु कुत एतद्विवर्जयेत् ? इत्याह-यत इति शेषो, यतोऽतिचार इति, अयं च प्रत्येकं योज्यते, यथा मनःप्रभृतीनां दुष्प्रणिधानमतिचारः, सामायिकस्मृत्यकरणमतिचारोऽनवस्थितकरणं चातिचार इति, अनवस्थितकरणमपि सामायिकस्यैव, सान्निध्यादित्येवं योजनेति गाथार्थ: ।। अतिचारपदभावना चेयं मनोदुष्प्रणिधानं नाम गृहादिगतसुकृतदुष्कृतचन्तनारूपं, वागदुष्प्रणिधानं तु असमंजसासत्यादिभाषणं, कायदुष्प्रणिधानमप्रत्युपेक्षिताप्रमार्जितस्थानकायनिवेशनं, एतानि च सामायिकस्थोऽपरित्यजन् सामायिकफलं न लभत एव, यदुक्तम्-“सामाइयंति काउं घरचितं जो उ चिंतए सड्डो । अट्टवसट्टोवगओ निरत्थयं तस्स सामइयं ॥ १ ॥ कडसामइओ पुि बुद्धीए पेहिऊण भासेज्जा । सइ निरवज्जं वयणं अन्नह सामाइयं न भवे ॥ २॥ अनिरिक्खयापमज्जिय थंडिल्ले ठाणमाइ सेवतो । हिंसाभावेऽवि न सो कडसाम इओ पमायाओ || ३ || ' तथा 'सामायिकस्मृत्यकरणं' 'सामायिकविषयाया: स्मृतेः स्मरणस्याकरणम्-अनासेवनं, एतदुक्तं भवति-प्रबलप्रमादान्नैवं स्मरति यदुतास्यां वेलायां मया सामायिकं कर्त्तव्यं कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानमतोऽस्यापि करणे सामायिकमफलमेव, यदुक्तम्- "न सरइ पमायजुत्तो जो सामइयं कया उ कायव्वं । कयमकयं वा तस्स हु कयंपि विफलं तयं नेयं ॥ १॥" अनवस्थितकरणमिति, अनवस्थितम् - अस्थिरस्वरूपं करणं विधानं सामायिकस्य, यद्वाऽनवस्थितस्येति सामायिकस्य विशेषणं तस्य करणं, कोऽर्थः 2प्रबलप्रमादादेव तक्तालगृहीतं सामायिकं तक्तालमेव मुञ्चति यथाकथञ्चिद्वा करोति तदनवस्थितकरणं, तदपि क्रियामाणं सामायिकस्याशुद्धिमेव जनयति यथोक्तम्-“काऊण तक्खणं चिय पारेड़ करेड़ वा जहिच्छाए । अणवट्ठिय सामइयं अणायराओ न तं सुद्धं ||१|| ” गतमतिचारद्वारमधुना भङ्गोऽभिधीयते
दुप्पणिहाणं काउं न देइ मिच्छुक्कडत्ति भावेण । कुणइ य अइप्पसंगं तस्स फुडं होइ भंगोत्थ ।। १०० ।। 'दुष्प्रणिधानं' प्राग्वर्णितमनोदुष्प्रणिधानादि 'कृत्वा' विधाय, सामायिकस्थ इति प्रस्तावाल्लभ्यते, 'न ददाति' न वितरति 'मिच्छुक्कड' ति मिथ्यादुष्कृतं ‘भावेन’ भावतः संवेगसारं यथा हा न सुन्दरमिदं कृतं यत्सामायिकस्थेन गृहचिन्तादि कृतं "हा दुट्टु कयं हा दुट्टु कारियं अणुमयंप हा । अंतो अंतोज्झ झुसिरो व्व दुमो वणदवेणं ॥ | १ || ” इत्येवमात्मानं निन्दतीति तात्पर्यम्, अथवा 'मिच्छादुक्कडं'- त्यस्यार्थो
Jain EducaXXX Mternational
For Personal & Private Use Only
अतिचार भंगद्वारे
गा. ९९
१००
|॥२४० ॥
www.elibrary.org

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334