Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 284
________________ नवपदवृत्तिःमू.देव. व. यशो ॥२६॥ विजानीयाच्छेषमभ्यागतं विदुः ॥शा" तस्य संविभजनं संविभाग:- पुर:पश्चात्कर्मादिदोषरहितपिण्डादिदानमतिथिसंविभागः, स कीदृक्ष: ?, उच्यते: श्रद्धासत्कारक्रमसहित:' श्रद्धा-भक्तिबहुमानरूपा सत्कार:-पादप्रमार्जनासनप्रदानवन्दनादिपूजा क्रमो-यद्यत्रौदनादि प्रथमं दीयते तद्रूपः, श्रद्धादिपदानां K च त्रयाणां द्वन्द्वः ततस्तैः सहितो-युक्त: श्रद्धासत्कारक्रमसहितः, एतस्य च गाथासूत्रस्यायं भावार्थ:-इह यद्यप्यनेकधा दानमभिहितं विद्यते, यदुक्तम्"आदानगर्वसङ्ग्रहभयानुकम्पात्रपोपकारैः स्याद् । दानं धर्माधर्माभयैश्च दशधा मुनिभिरुदितम् ॥१॥" तथाऽपि धर्मार्थ यद्दानं तद्रूपोऽयमतिथिसंविभागोऽनेन सूचितो, यतस्तल्लक्षणमिदं- “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥१॥" अयं च यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-“पइदिणं भत्तपाणेणं, ओसहेण तहेव य । अणुग्गहेह KA मे भयवं!, सावओ उ निमंतए॥शा" गृहप्रविष्टे च साधावयं विधिर्यथा-"गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं । वंदिय सयं च वियरइ अहवा अण्णं दवावेइ ॥१॥ ठियओ चिट्ठए ताव, जाव सव्वं पयच्छियं । पुणोऽवि वंदणं दाउं, भुंजई उ सयं गिही ॥२॥ एन्तस्सऽणुगच्छणया ठियस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥३॥" ति, तथाऽपि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं कृत्वा भोक्तव्यम् अन्यदा त्वनियम इति दर्शनार्थं पौषधानन्तरमभिहित इति गाथार्थः ।। भेदोऽधुनाऽस्योच्यते असणं पाणं तह वस्थपत्तभेसज्जसेज्जसंथारो । अतिहीण संविभागे भेया अह एवमाईया ॥१२॥ अश्यत इति अशनं-ओदनादि पीयत इति पानं-क्षीराश्रावणसौवीरकद्राक्षापानकादि, एतौ द्वौ भेदौ, तथाशब्दो भेदान्तरसमुच्चये, तान्येवाह'वस्त्रपात्रभैषजशय्यासंस्तारः' इति, तत्र वस्त्रं-वास: कासिकादि पात्रम्-अलाब्वादि भैषजं-त्रिकटुकादि शय्या-वसति: संस्तार:- कम्बल्यादिलक्षण:, एतेषां च शय्यान्तानां द्वन्द्वे संस्तारकशब्देन मध्यपदलोपी तृतीयातत्पुरुषः, स चैवं-वस्त्रपात्रभैषज्यशय्याभि: सहित: संस्तार: वस्त्रपात्रभैषज्यशय्यासंस्तारः, एते पंच पूर्वकाभ्यां सह सप्त भवन्ति, एते चाशनादय: किमित्याह-अतिथिसंविभागे भेदाः, तत्रातिथि म सर्वारम्भनिवृत्यादिगुणप्रधानं पात्रं, यदुक्तं"सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरत: सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥१॥" तस्मै संविभागो-धर्मार्थमशनादिदानं, KB तथोक्तम्-"संयमगुणयुक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पञ्चेन्द्रियविरतेभ्यः समितेभ्यः पञ्चसमितिषु च ॥१।। समतृणमणिमुक्तेभ्यो K॥२६१॥ यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥२॥" नन्वत्र को हेतुः यदेवंविधपात्रेभ्यो दीयमानं दानमक्षयादिगुणविशिष्टं KA Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334