________________
नवपदवृत्तिःमू.देव. व. यशो ॥२६॥
विजानीयाच्छेषमभ्यागतं विदुः ॥शा" तस्य संविभजनं संविभाग:- पुर:पश्चात्कर्मादिदोषरहितपिण्डादिदानमतिथिसंविभागः, स कीदृक्ष: ?, उच्यते: श्रद्धासत्कारक्रमसहित:' श्रद्धा-भक्तिबहुमानरूपा सत्कार:-पादप्रमार्जनासनप्रदानवन्दनादिपूजा क्रमो-यद्यत्रौदनादि प्रथमं दीयते तद्रूपः, श्रद्धादिपदानां K च त्रयाणां द्वन्द्वः ततस्तैः सहितो-युक्त: श्रद्धासत्कारक्रमसहितः, एतस्य च गाथासूत्रस्यायं भावार्थ:-इह यद्यप्यनेकधा दानमभिहितं विद्यते, यदुक्तम्"आदानगर्वसङ्ग्रहभयानुकम्पात्रपोपकारैः स्याद् । दानं धर्माधर्माभयैश्च दशधा मुनिभिरुदितम् ॥१॥" तथाऽपि धर्मार्थ यद्दानं तद्रूपोऽयमतिथिसंविभागोऽनेन सूचितो, यतस्तल्लक्षणमिदं- “यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥१॥" अयं च यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-“पइदिणं भत्तपाणेणं, ओसहेण तहेव य । अणुग्गहेह KA मे भयवं!, सावओ उ निमंतए॥शा" गृहप्रविष्टे च साधावयं विधिर्यथा-"गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं । वंदिय सयं च वियरइ अहवा अण्णं दवावेइ ॥१॥ ठियओ चिट्ठए ताव, जाव सव्वं पयच्छियं । पुणोऽवि वंदणं दाउं, भुंजई उ सयं गिही ॥२॥ एन्तस्सऽणुगच्छणया ठियस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥३॥" ति, तथाऽपि पौषधोपवासपारणकेऽवश्यं साधुसंभवेऽमुं कृत्वा भोक्तव्यम् अन्यदा त्वनियम इति दर्शनार्थं पौषधानन्तरमभिहित इति गाथार्थः ।। भेदोऽधुनाऽस्योच्यते
असणं पाणं तह वस्थपत्तभेसज्जसेज्जसंथारो । अतिहीण संविभागे भेया अह एवमाईया ॥१२॥
अश्यत इति अशनं-ओदनादि पीयत इति पानं-क्षीराश्रावणसौवीरकद्राक्षापानकादि, एतौ द्वौ भेदौ, तथाशब्दो भेदान्तरसमुच्चये, तान्येवाह'वस्त्रपात्रभैषजशय्यासंस्तारः' इति, तत्र वस्त्रं-वास: कासिकादि पात्रम्-अलाब्वादि भैषजं-त्रिकटुकादि शय्या-वसति: संस्तार:- कम्बल्यादिलक्षण:, एतेषां च शय्यान्तानां द्वन्द्वे संस्तारकशब्देन मध्यपदलोपी तृतीयातत्पुरुषः, स चैवं-वस्त्रपात्रभैषज्यशय्याभि: सहित: संस्तार: वस्त्रपात्रभैषज्यशय्यासंस्तारः, एते पंच पूर्वकाभ्यां सह सप्त भवन्ति, एते चाशनादय: किमित्याह-अतिथिसंविभागे भेदाः, तत्रातिथि म सर्वारम्भनिवृत्यादिगुणप्रधानं पात्रं, यदुक्तं"सर्वारम्भनिवृत्तस्तु, स्वाध्यायध्यानतत्परः । विरत: सर्वपापेभ्यो, दान्तात्मा ह्यतिथिर्भवेत् ॥१॥" तस्मै संविभागो-धर्मार्थमशनादिदानं, KB तथोक्तम्-"संयमगुणयुक्तेभ्यः षड्जीवनिकायरक्षणपरेभ्यः । पञ्चेन्द्रियविरतेभ्यः समितेभ्यः पञ्चसमितिषु च ॥१।। समतृणमणिमुक्तेभ्यो K॥२६१॥ यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं, तद्दानं भवति धर्माय ॥२॥" नन्वत्र को हेतुः यदेवंविधपात्रेभ्यो दीयमानं दानमक्षयादिगुणविशिष्टं KA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org