________________
नवपदवृत्ति: पू. देव. वृ. यशो
।। २६२।।
भवति ?, ब्रूमो, विधिविशेषाद्द्रव्यविशेषाद्दातृविशेषात्पात्रविशेषाच्च फलविशेष इति, इत्थं चेदमङ्गीकर्त्तव्यम् अन्यथा - "दंसणनाणचरित्तं, तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं भत्तीऍ पूयए तं तहाभावं ॥१॥" इत्येतत्कल्पभाष्योक्तं विघटेत, नहि तत्र जिनप्रणीतदर्शनादिगुणसमुदायवत्पात्रपूजैव सफलेत्येतत्प्रतिपादितं, किन्तु 'जत्थ जत्तियं पासे' इति वचनाद्यथासंभवभाविगुणपूजाऽपि फलविशेषहेतुर्भवत्येव ततश्च यत्र समुदितगुणयोगस्तत्र पा प्रदीयमानदानस्य महत्फलं, अन्यत्रापि दातुः स्वकीयभाववशेन विशिष्टमेव फलं यदुक्तं व्यवहारभाष्ये- "निच्छयओ पुण अप्पेऽवि जत्थ वत्युंमि जायई भावो । तत्तो सो निज्जरओ जिणगोयमसीहआहरणा ||१|| " 'सीह' त्ति सिंहजीवोदाहरणादिति, किञ्च अनुकम्पादानस्य सर्वत्र जिनैरनिषिद्धत्वादेव चेदमवबुध्यते, तस्मात्स्थितमेतत्-द्रव्यदातृपात्रविधिसामग्र्याऽक्षयादिगुणं दानमिति, किमेत एव भेदा उतान्येऽपि केचन सन्ति ? उच्यते, सन्ति, यत आह ग्रन्थकृत्- 'भेदाः' प्रकाराः 'अथैवमादिकाः' इत्येवम्-उक्तप्रकारा अशनादय आदयो येषां कम्बल पादप्रोच्छनकादीनां त एवमादय इति गाथार्थ: ।। तृतीयद्वारम् -
सोऊण अदिवि हु, कुरंगवरजुण्णसेट्ठिमाईणं । फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥
'श्रुत्वा' आकर्ण्य, उपलक्षणं चैतद् दृष्ट्वेत्यस्य, किम् ? - फलं साध्यं स्वर्गापवर्गादिरूपं, क्व ? - 'इह' अस्मिन् लोके प्रवचने वा, कस्य ?'निरन्तरायस्स' अप्रत्यूहस्य, 'दानबुद्धि:' वितरणमतिः 'शुभा' पुण्या सुखा वा सुखहेतुः 'भवति' जायते, क्व सति ? 'अदत्तेऽपि' अवितीर्णेऽपि, आहारादाविति शेषः, केषामित्याह- कुरङ्गवरजीर्णश्रेष्ठ्यादीनां कुरङ्गञ्च हरिणो वरजीर्णश्रेष्ठी च- प्रधानपुरातनवणिङ्मुख्यः तावादी येषां ते तथा तेषां, अयमत्र भावार्थ:-यद्यपि तथाविधसामग्र्यभावात्कथञ्चित्साक्षाद्दानं न संपन्नं तथाऽपीहलौकिकं पारलौकिकं च दानफलं श्रुत्वा दृष्ट्वा वा निरन्तरायस्य प्राणिनो दानबुद्धिर्जायत एवेति गाथासमासार्थः ।।
विस्तरार्थः कथानकाभ्यामवसेयः, तत्र कुरङ्गकथानकमनर्थदण्डव्रते यत्पुरा वासुदेवचरितमुपवर्णितं तत्सर्वमेव तावत्कथनीयं यावत्कौशाम्बव वासुदेवो जराकुमारक्षिप्तेषुताडितः कथाशेषतां गतो बलदेवश्च सरसो जलमादाय समागतस्तं तथाऽवस्थमवलोक्य मूर्च्छया पतितो धरणीतले प्रत्यागतचेतनश्च कियत्याऽपि वेलया महान्तमुन्मुच्य सिंहनादं येनायं मदीयभ्राता विनिपातितः स यदि सत्यमेव सुभटस्तदा ददातु मम दर्शनं, न खलु सुप्ते प्रमत्ते व्याकुले वा प्रहरन्ति धीराः, तन्नूनं पुरुषाधमः कश्चिदसावित्येवमुच्चशब्देन प्रतिपादयन् समन्ततो दिशश्चावलोकयन् पर्यट्य तत्पार्श्ववर्त्तिदेशं पुनः समागतो
For Personal & Private Use Only
Jain Education International
उत्पत्तिद्वारे कुरंगजी॒र्ण
श्रेष्ठिनौ
गा. १२२
॥२६२॥
www.jainelibrary.org