________________
नवपदवत्तिम.देव. वृ. यशो ॥२६३॥
गोविन्दसमीपं, गाढमोहाच्छादितविवेकलोचनः प्रवृत्तश्च प्रलपितुं-हा भ्रात: ! जनार्दन ! पृथिव्यामेकवीर ! मामेकाकिनमपहाय क्व गतोऽसि ?, किंवा | ममैवं प्रलपतोऽपि वाचं न ददासि ?, सम्प्रत्येष पुरुषोत्तम ! दिवसकरोऽस्तगिरिशिखरानुसारी वर्त्तते, तदुत्थाय विधेहि सन्ध्योपासनं, न ह्युत्तमपुरुषा: स्वपन्ति सन्ध्यासमये, रजनी चेयं बहलान्धकारा क्रूरश्वापदसङ्कलायामटव्यां कथमेवं निगमनीयेत्यादि प्रलपत एव प्रभाता रजनिः, समुद्गतो दिनकरः, तथाऽपि यावन्नोत्तिष्ठति हरिस्तावत्तत्स्नेहमोहितमना बलदेवस्तद्वियोगमनिच्छन्नात्मन: स्कन्धे समारोप्यैनं प्रवृत्तो गिरिकाननविवरेषु पर्यटितुं, अत्रान्तरेऽतिक्रान्ता अस्य षण्मासाः, ततो य: सिद्धार्थनामा सारथि: पूर्वगृहीतव्रतो देवीभूत: सोऽवधिज्ञानेनावलोक्य तदवस्थं बलदेवं तत्प्रतिबोधनाय समागतस्तं प्रदेश, देवमायया दर्शितो बलदेवस्य पर्वतविकटकूटसङ्कटप्रदेशेभ्य उत्तरन्महारथः, स च समभूमिमनुप्राप्तो गत: शतखण्डतां, ततस्तं संधातुमिच्छन् सिद्धार्थदेवो भणितो बलदेवेन-भो मुग्धपुरुष ! य: तव रथो गिरिगह्वराणि विलयास्मिन् समे पथि शतखण्डीभूतः स कथमेष त्वया सन्धीयमानोऽपि प्रगुणो भविष्यति ?, देवेनोक्तं-य एष तव भ्राता अनेकेषु युद्धशतेषु युध्यमानो न मृतः स इदानीं युद्धं विनैव मृतो यदा जीविष्यति तदा रथोऽपि प्रगुणो KA भविष्यतीत्यादिदृष्टान्तैः प्रत्यानीतचेतनो देवेन स्वरूपमुपदर्य प्राग्वृत्तान्तकथनपूर्वकं प्रतिबोधितो बलदेवस्त्याजितो हरिकलेवरं, कारितो नदीद्वयपुलिने सत्कारमस्य, अत्रान्तरे भगवता अरिष्ठनेमिना विज्ञाय बलदेवस्य प्रव्रज्यासमयं प्रेषितो विद्याधरश्रमणो, दत्ता तेन तस्य प्रव्रज्या, तामादाय तुङ्गिकागिरिशिखरे । घोरतपश्चरणं कर्तुमारब्धः, एष प्रायेण च मासान्मासात्तृणकाष्ठहारकादिभ्यो भक्तपानप्राप्तौ प्राणयापनां करोति, अन्यदा मासपारणकदिने भिक्षार्थं नगरमेकं X प्रविष्टे तस्मिन्नेका कामिनी समुपारूढप्रौढयौवना पानीयादानायावटतटनिकटवर्तिनी तद्रुपातिशयसमाक्षिप्तमनस्कतया समासन्नवर्तिनं स्वबालकमपि रुदन्तमजानती घटककर्णभ्रान्त्या तद्गलक एव समाधाय रज्जु कूपे प्रक्षेप्तुमारब्धा, समीपवर्तिना चान्येन सोपालम्भं निर्भय॑ विरुक्षाक्षरैाहिता प्रतिबोधं त्याजिता श्वासावशेषं गर्भरूपं, अयं च वृत्तान्तो जातो दृष्टिगोचरचारी बलदेवमुनेः, विषण्ण एष मनसा-हा धिग् विरूपं मे रूपं यदित्थं दृष्टमात्रमपि स्त्रीणां । मोहहेतुतयाऽसमजसकारयितु, तदिदानी ममेदमेवोचितं यद्विजनारण्यावस्थानमिति विचिन्तयन्नेव स्त्रीजनाकुलेषु ग्रामनगरादिवसिमस्थानेष्वाहारार्थमपि मया । न प्रवेष्टव्यमिति घोराभिग्रहं गृहीत्वा तत एव स्थानादनुपात्तभिक्ष एव विनिवृत्त्यानेकशशकशूकरकुरङ्गादिविविधश्वापदनिकेतनं वनं विवेश, तत्रस्थस्य चामुष्य कदाचिद्दिनदशकात्कदाचिद्दिनपञ्चदशकादेवमादिव्यवधानेन तन्मार्गागन्तृसार्थादिभ्य: संपद्यते कोऽपि कदाचिदप्याहारो, जायते तेन प्राणयापना, एवं च गच्छत्सु केषुचिद्दिवसेषु तस्य निर्व्याजप्रशमधनस्य महामुनेरुवीक्षणेन प्रपेदिरे वनचरा अपि बहवो भद्रकभावादिगुणसन्तति, न केवलं KA
Jain Educat
mabonal
For Personal Private Use Only
www.
K
rary.org