________________
नवपद
वृत्तिःमू.देव. वृ. यशो ॥२६४॥
कथानकं
नरास्तिर्यञ्चोऽपि, एकश्च कुरङ्गशाव: सतततदवलोकनोत्नकर्मतानवसमुद्भूतजातिस्मरणोऽनवरतमेव तत्सेवाचिकीर्षया क्षणमपि न मुमोच तत्पार्श्वम्, अपि कुरंग च-गच्छति गच्छति तिष्ठति तिष्ठति चाश्नाति चाश्नाति मुनीन्द्रे । भक्तिपरीत: स मृगो निजमित्रे सुहृदिवाव्याजः ॥१।। अन्येाश्व तस्यामेवाटव्यां कथानके नृपादेशेन गन्त्रीसमन्वित उपात्तोदात्तसंबलक: प्रासादोपयोगिकाष्ठग्रहणाय रथकार एक: समागत्य महातरुमेकमर्द्धकृत्तं कारयित्वा निशातकुठारकरैः जीर्ण कर्मकरैः संपन्ने प्रहरद्वयदिवसे तस्यैवार्द्धच्छिन्नस्य तरोश्छायायामुपविश्य प्रारब्धायां तल्लोकैर्भोजनवेलायां समायाते तस्मिन् महामुनौ मासोपवासपारणके
श्रेष्ठि तं देशं समाविशन्तमालोक्य भिक्षानिमित्तं तत्पृष्ठलग्ने चागते भक्तिभरावनम्रशिरसि प्रमोदेन परिपुच्छयमाने हरिणशिशुके परमश्रद्धया धन्योऽहम् अहो ! यस्य ममास्मिन्नपि निर्जनारण्ये समापन्नायामाहारवेलायां प्रगुणीकृतेषूचितद्रव्येषु तिरस्कृतचिन्तामण्यादिमाहात्म्यो वनविहारिहरिणकैरप्येवमाराध्यमानो महामुनिराहारार्थी समाजगामाभ्यर्णमित्यतिशायिना बहुमानेन समुद्भिन्नसर्वाङ्गबहलपुलककण्टकितकाय: समुत्थायोचितद्रव्यहस्तो यावत्तं प्रतिलाभयितुं समारेभे, सोऽपि द्रव्यापद्युयोगं दातुमारब्धः, सारङ्गकोऽपि पुण्यभागेष मनुष्यरूपो य: संजातसमग्रसामग्रीक एवमेनं महातपस्विनं प्रतिलाभयितुमुद्यतः, अहं तु तिर्यग्जाति: उपारूढगाढभक्तिकोऽपि किं करोमि ?, न खल्वपुण्यभाजां वेश्मसु पतन्ति वसुवृष्टयः, एवं चिन्तयितुं प्रवृत्त:, तावदकाण्डप्रचण्डपवनानेएकविधपरावर्तनाभिवृहत्कटत्कारभज्यमान: सोऽर्द्धच्छिन्न: पादपो भवितव्यतावशेन निपतितस्तेषामेव रथकारादीनां त्रयाणामुपरि, तदभिघातेन प्राप्तास्त्रयोऽपि पञ्चत्वं गता ब्रह्मलोकदेवलोकं दानपात्रभावानुमोदनाध्यवसानमाहात्म्यैः, उक्तञ्च-"कर्तुः स्वयं कारयितुः परेण, चित्तेन तुष्टस्य तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥१॥" तथा धर्मदासगणिनाऽप्युक्तम्-"अप्पहियमायरंतो अणुमोयंतो य सोग्गइं लहइ । रहकार दाणमणुमोयओ मिगो जह य बलदेवो ॥१॥"
वरजीर्णश्रेष्ठिकथानकं चैवम्-वैशाल्यां नगर्यामार्यसङ्गत्युपार्जितोर्जितातिविशदकीर्तिविस्तरो विस्तरदतिशायिपुण्यप्राग्भारवशवशीभूतप्रबलप्रचुरशत्रुसामन्तश्श्चेटको नाम परमश्रावको राजा, तस्य सकलान्त:पुरप्रधाना पद्मावती देवी, तया सह त्रिवर्गसारं विषयसु-(ग्रं. ८०००) खमनुभवतोऽतिगच्छत्सु केषुचिद्दिनेषु भगवान् महावीरस्तीर्थकरश्छद्मस्थपर्यायवर्ती निकषा वर्षासमयं समाययौ तत्र विहारक्रमेण, प्रारेभे चातुमासिकक्षपणं, प्रतिमाव्यवस्थितश्च चतुष्पथे ददृशे जीर्णश्रेष्ठिना, स च श्रेष्ठिपदच्यावितस्तदा दृष्ट्वा त्रिलोकनायकमतीव मुमुदे, बहुमानपुरस्सरं च चिन्तितवान्-सोऽयं सिद्धार्थकुलतिलको HOW||२६४॥ महामुनिर्महावीरो यस्यानन्तगुणगणोपार्जितोर्जितकीर्तिः शरद्राकाशशाङ्करश्मिजालनिर्मला सुधेव धवलीकरोत्यशेषदिग्भित्ती:, अतो धन्या वयं येषामेष
in En
For Personal Private Use Only
brary.org