Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
वृत्ति: मू. देव. वृ. यो
।। २४९ ।।
पौषधशालायामेवावस्थानमुचितं नान्यत्र, तक्तंथमिदमुक्तं ' जिणभवणगओ' इत्यादि, सत्यं, जिनभवनाद्याभावे पौषधशालावस्थानमनुज्ञातं, यदुक्तं'चेइयसाहुअभावे भिण्णा भणिया घरस्स एगंते । एगस्स समिद्धस्स य पोसहसाला इमा भणिया ||१|| चंदवसिय संखो, सुदंसणो कामदेव अभओ य । एगागिणो य एए पोसहसालासु सुव्वंति ॥ २॥ आवश्यकचूर्ण्य तु समान्येनैवोक्तं, यथा- "चैत्यगृहे वा साधुमूले वा पौषधशालायां वा उम्मुक्तमणिसुवर्णो व्यपगतमालावर्णकविलेपनप्रहरणः, तत्र च कृते पठयति गुणति पुस्तकं वा वाचयति धर्मध्यानं वा ध्यायति, यथैतान् साधुगुणानहमसमर्थो मन्दभाग्यो धारयितुमित्यादि विभाषेति, अतः प्रवचनगाम्भीर्यमेव पर्यालोच्यं, न स्वमनीषिकया क्वाप्याग्रहो विधेय इति एतच्च पौषधव्रतं यः सामायिकमिव द्विविधत्रिविधेनेत्येवं प्रतिपद्यते तस्य पौषधेनैव सामायिकार्थप्राप्तेर्नात्यन्तं सामायिकविधानं फलवत्, केवलं पौषधसामायिकलक्षणं व्रतद्वयं मया प्रतिपन्नमिति भावनाविशेषात्फलवदपीति गाथार्थ: ।। तृतीयद्वारेणेदमेव सम्प्रति निर्दिश्यते
विरतिफलं नाऊणं भोगसुहासाउ बहुविहं दुक्खं । साहुसुहकोउएण य पडिपुण्णं ( चउव्विहं ) पोसहं कुणइ ॥ ११३॥
विरते:-नियमस्य फलं कार्य विरतिफलं कर्मानाश्रवादिरूपं, यदुक्तं- 'संयमे अनिण्यफले' संयमोऽनाश्रवफल इति 'ज्ञात्वा' अवबुध्य, तथा भोगसुखस्याशा भोगसुखाशा तस्या भोगसुखाशातः - कामभोगसौख्यवाञ्छातो 'बहुविधं' नानाप्रकारं शरीरमानसादिभेदं 'दुःखं' असातोदयरूपं, कपिलब्राह्मणस्येवासन्तोषप्रत्ययं - "जहा लाभो तहा लोभो, लाभा लोभो पवड्डूई । दोमासकयं कज्जं, कोडीएवि न निट्ठियं ॥ | १ || ' इत्यादयुत्तराध्ययनोक्तं ज्ञात्वेति वर्त्तते, ततः किमित्याह-चतुर्विधं पौषधं करोतीति चरमपादेन सम्बन्धः, न केवलमेतद्द्वयं ज्ञात्वेदं करोति, किन्तु कारणान्तरेण चेत्याह- 'साधुसुखकौतुकेन च' साधूनां व्रतिनां सुखं साधुसुखं यथा-नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १॥" इत्येवंरूपं तत्र कौतुकं - कुतूहलमभिलाष इति तात्पर्य तेन च 'चतुर्विधं' प्रागुक्ताहारपौषधादिभेदेन चतूरूपं 'पौषधं' प्रानिरूपितशब्दार्थं 'करोति' निर्वर्त्तयति, अनेन चैतेस्त्रिभिः कारणै: पौषधं जायत इति पर्यायत आवेदितमिति गाथार्थः ॥ दोषद्वारमितःजे पोसहं तु काउं चइया य परीसहेहि भजंति । नालोयंति य भग्गं भमंति भवसायरे भीमे ॥ ११४ ॥ 'ये' इत्यनिर्दिष्टनामान: श्रावका: 'पौषधं' प्रागुक्तरूपं 'तु:' विशेषणे, चतुर्विधमपीति विशिनष्टि, 'कृत्वा' विरच्य 'चइय' त्ति उद्वेजिताः 'च्याविता:' त्याजिता वा पौषधपरिणामादिति शेषः, कै: 2 - 'परीषहै: ' कर्मनिर्जरणार्थं परिषोढव्याः परीषहास्तै: क्षुत्तृष्णामलस्त्रीप्रभृतिभिरिति हृदयं,
For Personal & Private Use Only
Jain Education International
९ ॥ २४९ ॥
www.jainelibrary.org

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334