Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 271
________________ । भेदद्वारं गा.११२ नवपदतिम वृ. यशो ||२४८॥ पौषधोपवास: पुनराहारादिनिवर्त्तनं यच्चेति, आहार: अशनपानखाद्यस्वाद्यभेदाच्चतुर्विधः स आदिर्येषां देहसक्तारादीनां ते तथा तेषां निवर्त्तनं-नियमनमाहारादिनिवर्त्तनं तद्यत्, तत् स इत्यर्थः, चशब्दो न केवलमाहरादीनां चतुर्णा निवर्त्तने पौषधोपवास:, किन्तु तदन्यतमानिवर्त्तनेऽपीत्यनुक्तार्थसमुच्चयार्थः, 'कर्त्तव्यः' विधेयः स 'नियमात्' नियमेन 'अष्टम्यादिषु पर्वसु' अष्टमीचतुर्दश्यादिषूत्सवतिथिषु, यदुक्तं-“पौसह उववासो उण अट्ठमिचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास अट्ठाहिपज्जुसणे॥१॥" अट्ठाहित्ति अष्टाहिकाश्चैत्राश्वयुङ्मासानध्यायदिनेष्वमीप्रभृतयो या: क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणि:-"संवच्छर चाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥१॥" त्ति, यद्वा चकारोऽयं भिन्नक्रमस्तत: कर्त्तव्य: स चेत्यत्र योज्य:, शेषं पूर्वमिवेति गाथार्थः ।। भेदद्वारमधुना . आहारदेहसक्कारखंभऽवावारपोसहो चउहा। एक्केक्को च्चिय दुविहो देसे सब्वे य नायव्वो ॥११२।। आहारश्च प्रागुक्तो देहसक्तारश्च-शरीरभूषा ब्रह्म च-ब्रह्मचर्य ‘वावार'त्ति अचोऽची ति लोपे अव्यापारश्च हलादिकर्मत्यागः, आहारदेहसक्तारब्रह्माव्यापारास्तेषां पोषध आहारपोषधो देहसक्तारपोषधो ब्रह्मचर्यपोषधोऽव्यापारपोषधः, स 'चतुर्द्धा' चतुर्भि: प्रकारैश्चतुर्भद इत्यर्थः, तद्यथा-आहारपौषधो देहसक्तारपौषधो ब्रह्मचर्यपौषधोऽव्यापारपौषध इति, पौषधशब्दस्याहारादिपदैः प्रत्येकं सम्बन्धाद्, एकैकोऽपि चाहारपौषधादि: 'द्विविधः' 'द्विभेदो ज्ञातव्य इति सम्बन्धः, कथमित्याह-'देसे सव्वे यत्ति देशविषय: सर्वविषयश्च, तत्र देशविषय आहारपौषध एकभक्तादिः, सर्वविषयस्तु चतुर्विधाहारनिरोधेन चतुर्थतपः, देहसक्तारपौषधोऽपि देशविषयोऽस्नानपौषधादिः सर्वविषयस्तु सर्वस्यैव स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादेः शरीरसक्तारस्य रागबुद्ध्या परिहारः, ब्रह्मचर्य पौषधो देशे दिवैव रात्रावेव सकृदेव द्विरेव वेत्यादिनियमेन मैथुनासेवनं, सर्वत्र त्वहोरात्रं यावद्ब्रह्मचर्यपालनं, चरमस्तु देशत एकतरस्य कस्यापि व्यापारस्याकरणं, सर्वतस्तु सर्वेषामेव व्यापाराणां हलशकटगृहकर्मादीनामकरणं, इह चाव्यापारविषये यो देशत: पौषधं करोति स सामायिकं करोति न वा, यस्तु सर्वतः पौषधं करोति स नियमात्सामायिकं करोति, यदि न विदधाति तदा तत्फलेन वंच्यते, यतः सर्वतोऽव्यापारपौषधिक: सावद्यव्यापाररहितो ध्यानाध्ययनादिविशुद्धव्यापार: स्वरूपेणैव भवति, यदुक्तं-“सावज्जजोगविरओ झाणज्झयणमि निच्चलो धणियं । जिणभवणगओ चिट्ठइ, अव्वावारंमि पोसहिओ॥१॥" ननु पौषधशालाया: पौषधार्थमेव विधीयमानत्वात्पौषधिकस्य | ॥२४८॥ Jain Educ e rnational For Personal Private Use Only w ibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334