________________
।
भेदद्वारं गा.११२
नवपदतिम वृ. यशो ||२४८॥
पौषधोपवास: पुनराहारादिनिवर्त्तनं यच्चेति, आहार: अशनपानखाद्यस्वाद्यभेदाच्चतुर्विधः स आदिर्येषां देहसक्तारादीनां ते तथा तेषां निवर्त्तनं-नियमनमाहारादिनिवर्त्तनं तद्यत्, तत् स इत्यर्थः, चशब्दो न केवलमाहरादीनां चतुर्णा निवर्त्तने पौषधोपवास:, किन्तु तदन्यतमानिवर्त्तनेऽपीत्यनुक्तार्थसमुच्चयार्थः, 'कर्त्तव्यः' विधेयः स 'नियमात्' नियमेन 'अष्टम्यादिषु पर्वसु' अष्टमीचतुर्दश्यादिषूत्सवतिथिषु, यदुक्तं-“पौसह उववासो उण अट्ठमिचउद्दसीसु जम्मदिणे । नाणे निव्वाणे चाउमास अट्ठाहिपज्जुसणे॥१॥" अट्ठाहित्ति अष्टाहिकाश्चैत्राश्वयुङ्मासानध्यायदिनेष्वमीप्रभृतयो या: क्रियन्ते तासु कल्याणकदिनाष्टाहिकासु वा, एतेषु च दिनेषु सुश्रावकस्य जिनपूजातपोऽनुष्ठानविशेषोद्यमो भणित एव, यदाह धर्मदासगणि:-"संवच्छर चाउम्मासिएसु अट्ठाहियासु य तिहीसु । सव्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥१॥" त्ति, यद्वा चकारोऽयं भिन्नक्रमस्तत: कर्त्तव्य: स चेत्यत्र योज्य:, शेषं पूर्वमिवेति गाथार्थः ।। भेदद्वारमधुना
. आहारदेहसक्कारखंभऽवावारपोसहो चउहा। एक्केक्को च्चिय दुविहो देसे सब्वे य नायव्वो ॥११२।।
आहारश्च प्रागुक्तो देहसक्तारश्च-शरीरभूषा ब्रह्म च-ब्रह्मचर्य ‘वावार'त्ति अचोऽची ति लोपे अव्यापारश्च हलादिकर्मत्यागः, आहारदेहसक्तारब्रह्माव्यापारास्तेषां पोषध आहारपोषधो देहसक्तारपोषधो ब्रह्मचर्यपोषधोऽव्यापारपोषधः, स 'चतुर्द्धा' चतुर्भि: प्रकारैश्चतुर्भद इत्यर्थः, तद्यथा-आहारपौषधो देहसक्तारपौषधो ब्रह्मचर्यपौषधोऽव्यापारपौषध इति, पौषधशब्दस्याहारादिपदैः प्रत्येकं सम्बन्धाद्, एकैकोऽपि चाहारपौषधादि: 'द्विविधः' 'द्विभेदो ज्ञातव्य इति सम्बन्धः, कथमित्याह-'देसे सव्वे यत्ति देशविषय: सर्वविषयश्च, तत्र देशविषय आहारपौषध एकभक्तादिः, सर्वविषयस्तु चतुर्विधाहारनिरोधेन चतुर्थतपः, देहसक्तारपौषधोऽपि देशविषयोऽस्नानपौषधादिः सर्वविषयस्तु सर्वस्यैव स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादेः शरीरसक्तारस्य रागबुद्ध्या परिहारः, ब्रह्मचर्य पौषधो देशे दिवैव रात्रावेव सकृदेव द्विरेव वेत्यादिनियमेन मैथुनासेवनं, सर्वत्र त्वहोरात्रं यावद्ब्रह्मचर्यपालनं, चरमस्तु देशत एकतरस्य कस्यापि व्यापारस्याकरणं, सर्वतस्तु सर्वेषामेव व्यापाराणां हलशकटगृहकर्मादीनामकरणं, इह चाव्यापारविषये यो देशत: पौषधं करोति स सामायिकं करोति न वा, यस्तु सर्वतः पौषधं करोति स नियमात्सामायिकं करोति, यदि न विदधाति तदा तत्फलेन वंच्यते, यतः सर्वतोऽव्यापारपौषधिक: सावद्यव्यापाररहितो ध्यानाध्ययनादिविशुद्धव्यापार: स्वरूपेणैव भवति, यदुक्तं-“सावज्जजोगविरओ झाणज्झयणमि निच्चलो धणियं । जिणभवणगओ चिट्ठइ, अव्वावारंमि पोसहिओ॥१॥" ननु पौषधशालाया: पौषधार्थमेव विधीयमानत्वात्पौषधिकस्य |
॥२४८॥
Jain Educ
e rnational
For Personal Private Use Only
w
ibrary.org