SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यो ।। २४९ ।। पौषधशालायामेवावस्थानमुचितं नान्यत्र, तक्तंथमिदमुक्तं ' जिणभवणगओ' इत्यादि, सत्यं, जिनभवनाद्याभावे पौषधशालावस्थानमनुज्ञातं, यदुक्तं'चेइयसाहुअभावे भिण्णा भणिया घरस्स एगंते । एगस्स समिद्धस्स य पोसहसाला इमा भणिया ||१|| चंदवसिय संखो, सुदंसणो कामदेव अभओ य । एगागिणो य एए पोसहसालासु सुव्वंति ॥ २॥ आवश्यकचूर्ण्य तु समान्येनैवोक्तं, यथा- "चैत्यगृहे वा साधुमूले वा पौषधशालायां वा उम्मुक्तमणिसुवर्णो व्यपगतमालावर्णकविलेपनप्रहरणः, तत्र च कृते पठयति गुणति पुस्तकं वा वाचयति धर्मध्यानं वा ध्यायति, यथैतान् साधुगुणानहमसमर्थो मन्दभाग्यो धारयितुमित्यादि विभाषेति, अतः प्रवचनगाम्भीर्यमेव पर्यालोच्यं, न स्वमनीषिकया क्वाप्याग्रहो विधेय इति एतच्च पौषधव्रतं यः सामायिकमिव द्विविधत्रिविधेनेत्येवं प्रतिपद्यते तस्य पौषधेनैव सामायिकार्थप्राप्तेर्नात्यन्तं सामायिकविधानं फलवत्, केवलं पौषधसामायिकलक्षणं व्रतद्वयं मया प्रतिपन्नमिति भावनाविशेषात्फलवदपीति गाथार्थ: ।। तृतीयद्वारेणेदमेव सम्प्रति निर्दिश्यते विरतिफलं नाऊणं भोगसुहासाउ बहुविहं दुक्खं । साहुसुहकोउएण य पडिपुण्णं ( चउव्विहं ) पोसहं कुणइ ॥ ११३॥ विरते:-नियमस्य फलं कार्य विरतिफलं कर्मानाश्रवादिरूपं, यदुक्तं- 'संयमे अनिण्यफले' संयमोऽनाश्रवफल इति 'ज्ञात्वा' अवबुध्य, तथा भोगसुखस्याशा भोगसुखाशा तस्या भोगसुखाशातः - कामभोगसौख्यवाञ्छातो 'बहुविधं' नानाप्रकारं शरीरमानसादिभेदं 'दुःखं' असातोदयरूपं, कपिलब्राह्मणस्येवासन्तोषप्रत्ययं - "जहा लाभो तहा लोभो, लाभा लोभो पवड्डूई । दोमासकयं कज्जं, कोडीएवि न निट्ठियं ॥ | १ || ' इत्यादयुत्तराध्ययनोक्तं ज्ञात्वेति वर्त्तते, ततः किमित्याह-चतुर्विधं पौषधं करोतीति चरमपादेन सम्बन्धः, न केवलमेतद्द्वयं ज्ञात्वेदं करोति, किन्तु कारणान्तरेण चेत्याह- 'साधुसुखकौतुकेन च' साधूनां व्रतिनां सुखं साधुसुखं यथा-नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १॥" इत्येवंरूपं तत्र कौतुकं - कुतूहलमभिलाष इति तात्पर्य तेन च 'चतुर्विधं' प्रागुक्ताहारपौषधादिभेदेन चतूरूपं 'पौषधं' प्रानिरूपितशब्दार्थं 'करोति' निर्वर्त्तयति, अनेन चैतेस्त्रिभिः कारणै: पौषधं जायत इति पर्यायत आवेदितमिति गाथार्थः ॥ दोषद्वारमितःजे पोसहं तु काउं चइया य परीसहेहि भजंति । नालोयंति य भग्गं भमंति भवसायरे भीमे ॥ ११४ ॥ 'ये' इत्यनिर्दिष्टनामान: श्रावका: 'पौषधं' प्रागुक्तरूपं 'तु:' विशेषणे, चतुर्विधमपीति विशिनष्टि, 'कृत्वा' विरच्य 'चइय' त्ति उद्वेजिताः 'च्याविता:' त्याजिता वा पौषधपरिणामादिति शेषः, कै: 2 - 'परीषहै: ' कर्मनिर्जरणार्थं परिषोढव्याः परीषहास्तै: क्षुत्तृष्णामलस्त्रीप्रभृतिभिरिति हृदयं, For Personal & Private Use Only Jain Education International ९ ॥ २४९ ॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy