SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥२४७॥ प्रक्षेपणं-प्रेरणं बहिः पुद्गलप्रक्षेप: स च, संभवी चायं, यदुक्तं- "सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ। बहिया पोग्गलखेवेहिं कुणइ सण्णं स लोगस्स ॥' एवं च पञ्चेति सङ्ख्या , अतिचारान् परिहरेत्, प्रस्तावाद्देशावकाशिकस्यातिक्रमविशेषान् परित्यजेद्, यतो देशावकाशिकमेतदर्थमभिगृह्यते-मा भूद् बहिर्गमनागमनव्यापारजनितः प्राण्युपमर्द इति, स च स्वयं कृतोऽन्येन वा कारित इति फलेन कश्चिद्विशेषः, प्रत्युत गुण: स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदविशुद्धिरेव, इह च आद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति गाथार्थः ।। भङ्गद्वारमित: सव्ववयाण निवित्तिं दियह काऊण तक्खणा चेव । आउट्टियाएँ भंग निरवेक्खो सव्वहा कुणइ ॥१०९॥ 'सर्वव्रतानां' स्थूलप्राणातिपातविरमणादीनां 'निवृत्ति' सड्क्षेपनियमलक्षणां 'दिवस' दिनं सकलमिति शेष: ‘कृत्वा' विधाय 'तत्क्षणादेव' सपद्येव 'आकुट्टिकया' उपत्यकरणेन 'भङ्ग' सर्वनाशं निरपेक्ष: 'सर्वथा' सर्वप्रकारेण, व्रतविगमं प्रतीत्येति गम्यते, 'करोति' विदधाति, अयमत्र भावार्थ:प्राणातिपाताविरमणादीनि पूर्व यानि व्रतानि स्वीकृतानि तेषामेव कदाचित्पृथिव्यादिखननादिनिवृता सङ्क्षेपं दिवसप्रमाणं विधाय तक्तालमेवोपेत्यकारेण पृथिव्यादिविनाशप्रवृत्तो देशावकाशिकव्रतस्य सर्वव्रतसक्षेपरूपस्य भङ्गं जनयति, तन्निरपेक्षत्वादिति गाथार्थ: ।। भावनाद्वारे गाथा सव्वे य सव्वसंगेहिं वज्जिए साहुणो नमंसिज्जा। सव्वेहिं जेहिं सव्वं सावज्ज सव्वहा चत्तं ॥११०॥ 'सर्वान्' अशेषान् 'च:' पूरणे 'सर्वसङ्गैः' निखिलसम्बन्धैः अन्तरङ्गैः बहिरङ्गैर्ममत्वधनधान्यादिभिर्जिता-रहिताः सर्वसङ्गवर्जितास्तान् ‘साधून्' र भावयतीन् मोक्षार्थसाधनपरानित्यर्थः 'नमस्येत्' नमस्कुर्यात्, यैः किं कृतमित्याह-सव्यैः-अनुकूलैः, प्राणिष्विति गम्यते, यै: 'सर्व' समस्तं 'सावा' सपापमनुष्ठानमिति शेष: 'सर्वथा' सर्वप्रकारेण 'त्यक्त' मुक्तमिति गाथार्थ: ।। उक्तं द्वितीयशिक्षाव्रतं, साम्प्रतं तृतीयमभिधातव्यं, तदपि नवद्वारमित्यत: प्रथमद्वारेण तावदाह पोसह उववासो उण आहाराईनियत्तणं जं च । कायव्वो सो नियमा अट्ठमिमाईसु पव्वेसु ॥११॥ _ 'पुष पुष्टौ' इत्यस्य धातो: पोष:-पुष्टि: प्रक्रमाद्धर्मस्य तं धत्ते-करोतीति पौषध:-पर्वदिनानुष्ठेयं धर्मकर्म तस्मिन् स एवोपवसनमुपवास: पौषधोपवासः, पुन:शब्दो देशावकाशिकादस्य विशेषोपदर्शनार्थः, ततोऽयमर्थ:-देशावकाशिकं तावत्प्रागुक्तरूपं, पौषधोपवासस्तु कीदृश इत्याह Jain Ede M alal For Personal & Private Use Only www.Xbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy