________________
नवपद
अतिचार
द्वारं
गा.१०८
वृ. यशो ॥२४६॥
सद्ध्याने जग्निरे स्थिरा: ।।१।। कालान्तरे च-श्रावकधर्ममपेतकलङ्घ, तीर्थकृता गदितं परिपाल्य । भक्तिनिवृत्तिसमाहितचित्तः, सत्तमदेवभवं प्रतिपेदे ।।२।। सौधर्मदेवलोकप्रवरविमानेऽरुणप्रभाभिख्ये । हुतरायुरजनि देवस्ततश्च्युतः सेत्स्यति विदेहे ।।३।। यतनाऽधुनोच्यते
एगमुहुत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेउ दढं जावइयं उच्छहे कालं ॥१०७।। एकं च तन्मुहूर्तं च एकमुहूर्त, द्वे घटिके यावदित्यर्थः, “दिवसं' चतुष्प्रहरप्रमाणं दिनं 'रात्रिं' चतुष्पहरात्मिकामेव रजनी ‘पञ्चाहमेव' पञ्चाहोरात्राण्येव पक्षं वा' पञ्चदशराबिन्दिवानि वा 'व्रतं' नियमं 'इह' लोके 'धारयतु' बिभर्तु पालयत्वितियावत् 'दृढ' अत्यर्थं 'जावइयं' ति यावन्मात्रं कालमिति सम्बन्धः 'उत्सहेत' उत्साहं कुर्यात्, देशावकाशिकग्रहणं प्रतीति शेषः । प्रकृतभावना चेयं-यावन्तमेव कालं देशावकाशिकग्रहणं प्रत्युत्सहेत, कोऽर्थ: ?-यावक्तालं जीवस्यैतद्गहणे वीर्योल्लासशक्तिस्तावक्तालमेव मुहूर्त्तदिवसादिकमेतद्भूयो भूयः कुर्यात्, न त्वालस्यं विदध्यादिति, एषैवास्य यतनेति गाथार्थः ।। अतिचाराः सम्प्रत्यस्य
आणयणि पेसणेऽवि य पओग तह सद्दरूववाए य । बहिपोग्गलपक्खेवो पंचइयारे परिहरेज्जा ।।१०८॥ _ 'आणयणि' त्ति आनयने सप्तम्येकवचनान्तं पदं, अथवा 'आणयण' त्ति सूत्रत्वाल्लुप्तसप्तम्येकवचनो निर्देश:, 'प्रेषणे' इति च सप्तम्यन्तं 'अपि चेति समुच्चये, प्रयोजनं प्रयोगः, स च द्वयोरप्यानयनप्रेषणयोः प्रत्येकं संबध्यते, तत आनयने प्रयोग एकोऽतिचारो, द्वितीय: प्रेषणे प्रयोग इति, अनयोश्चानयने प्रयोगस्तावदयम्-विवक्षितक्षेत्रबहिर्त्तिन: सचित्तादिद्रव्यस्य विवक्षितक्षेत्र एवानयने-प्रापणे प्रयोगः, स्वयं गमने व्रतभङ्गभयादन्यस्य संदेशकादिना त्वयेदमानेयमित्येवं व्यापारणमानयनप्रयोगः, प्रेष्यत इति प्रेषणः, 'कृत्यल्युटो बहुल' मिति वचनाक्तर्मणि ल्युटि प्रेष्य उच्यते, तस्मिन् प्रयोग:-तद्विषयं व्यापारणं, गृहीतदिक्परिमाणादुर्ध्वं स्वयं गमने व्रतभङ्गभयादन्यप्रस्थापने प्रेषणप्रयोग इत्यर्थः, 'तह' त्ति यथा प्राक्तनावतिचारौ तथा शब्दरूपपात:, शब्दश्चकाशितादिः स्वकीयो रूपं च-आकृतिः स्वशरीरस्य शब्दरूपे तयोः पातनं पातो-विवक्षितक्षेत्रबहिःस्थिताकारणीयस्य श्रोत्रे दृष्टौ च निवेशनं शब्दरूपपात:, पातशब्दस्य प्रत्येकं सम्बन्धेन शब्दपातरूपपातनामको द्वावतिचारावेतौ, अनयोश्चैवं संभव:-स्वबुद्धिस्वीकृतक्षेत्रात् परत: स्थितमाकारणीयं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा काशितादिशब्दश्रावणस्वकीयरूपसंदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दपातो रूपपातश्चाविचाराविति, चकारोऽग्रे दृश्यः, ततो न केवलमेतेऽतिचारा:, बहिः पुद्गलप्रक्षेपश्च, बहि:-विवक्षितक्षेत्राबाह्यभूमौ प्रयोजनभावे परप्रबोधनाय पुद्गलानां-लेष्ट्रशर्करादीनां
४६॥
Jain Educ
&
ernational
For Personal & Private Use Only
ww
&
brary.org