Book Title: Navpad Prakaranam
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 259
________________ नवपदवृत्ति:मू.देव. वृ. यशो KI ॥२३६॥ | समं त्यजाम्येनमम्ब ! येन कदाग्रहम् ।।९८।। ततो ज्ञात्वाऽतिनिर्बन्धं, सैतस्या अनिवर्तकम् । बभाषे पुत्रि ! यद्येवं, पूरयामि तवेहितम् ।।९९।। केवलं । सुदर्शन कतिचिद्वत्से !, दिनानि प्रतिपालय । यावदेति जनानन्दः, कौमुदीपरमोत्सवः ॥१००॥ एवमाश्चासिता धात्र्या, गणयन्ती दिनान्यसौ । कथानकं विवक्षितावधेर्वाक्कष्टेनातिष्ठदुन्मनाः ॥१॥ अथ क्रमेण संप्राप्ते, कौमुदीदिवसे मुदा । पटहं दापयामास, प्रातरेव महीपतिः ।।२।। यथा सान्तःपुरो राजा, क्रीडोद्यानं गमिष्यति । तत: समस्तलोकेन, तत्रागम्यं निजश्रिया ॥३।। यस्तु कार्यान्तरासक्तोऽवज्ञायाज्ञां महीपतेः । लङ्घयिष्यति दण्ड्योऽसौ, दण्डेन महता किल ॥४|अत: सुदर्शन: श्रुत्वा, चिन्तयामास चेतसि । चतुर्मासकमेकत्र, राजाऽऽज्ञाऽन्यत्र दुर्घटम् ।।५।। यतो जिनेन्द्रबिम्बानां, चतुर्मासकपर्वणि । कार्या पूजा चतूरूपो, धार्यः शक्त्या च पौषधः ॥६॥ न चैतदुत्सवव्यग्रः, कर्तुं शक्ष्यामि किञ्चन । मोचयामि तदात्मानं, पुरो गत्वा महीपते: ।।७।। ततोऽनया॑णि रत्नानि, गृहीत्वाऽसौ सुदर्शन: । ददर्श नृपति तेन, पृष्टस्तुष्टेन सादरम् ।।८।। केनार्थेन त्वमायातस्ततोऽवादीत्सुदर्शनः । युष्मदाज्ञेह कार्त्तिक्यामुद्यानगमनं प्रति ।।९।। अर्हत्पूजनमस्माकं, कर्त्तव्यं पौषधस्तथा । तदत्र नापराधो न, उद्यानानागतावपि ।।१०।। राज्ञोक्तं-क्रियतां स्वेच्छया सर्वं, नापराधोऽस्ति ते क्वचित् । ततोऽर्हत्स्नात्रपूजादि, विधायासो प्रयत्नवान् ।।११।। चकार पौषधं धन्यः, सर्वत: स चतुर्विधम् । अस्थादक्षोभ्यसत्त्वश्च, प्रतिमा सार्वरात्रिकीम् ॥१२॥ इतो देव्या शिरोदुःखव्याजनान्त:पुरस्थया। प्रोक्ता धात्री त्वया मेऽद्य, मेलनीय: सुदर्शनः ।।१३।। तद्व्यापारमथैक्षिष्ट, सा प्रतिपद्य | तद्वचः । ईक्षाञ्चक्रे च तं क्वापि, रहसि प्रतिमागतम् ।।१४।। तदा च-विच्छायकमलवदनां विलोक्य नलिनी गतेऽस्तमिह मित्रे । दयिता वियोगशङ्की | | विरौति करुणस्वरं चक्र: ।।१५।। अपिच-दिशा प्रतीच्याऽङ्गनयेव तूर्णं, समुद्रपानीयजिघृक्षयाऽत्र । पर्यरयते रश्मिनियन्त्रितोऽयं, दिवाकरः कुम्भ इवाम्बुराशौ ।।१६।। ततश्च-पूर्व वस्त्राच्छादितयक्षप्रतिमाप्रवेशकरणेन । कञ्चुकिनो विश्वास्य द्वित्रा वारा: कथञ्चिदपि ।।१७।। देवी यक्षप्रतिमा: किलतीति । तेषु विश्वस्तम् । तिष्ठत्सु समानिन्ये तेनोपायेन सोऽपि तया ॥१८॥ समर्पितोऽभयादेव्याः, साऽपि तं पुरत: स्थितम् । कामात हावभावाद्यैः, क्षोभयितुं । प्रचक्रमे ।।१९।। स्पर्शालिङ्गनचुम्बनपरापि न शशाक चलयितुं तं सा । धर्मध्यानारूढं महामुनिं वीतरागमिव ।।२०।। अत्रान्तरे-क्षोभयितुमसौ लग्ना बलेन न च मया प्रतीकारः । विहितोऽमुष्या इति लज्जयेव नाशं गता श्यामा ।।२१।। तथा-पश्य समस्तां रात्रि स्थितोऽपि नाहं शशाक मोचयितुम् । अस्याः सत्पुरुषममुं त्रपयेवास्तमित इन्दुरपि ।।२२।। सर्वामपि त्रियामां कदर्थितो ध्यानतो न यश्चलित: । दृश्योऽयमिति धियेवाऽऽरुरोह रविरुदयगिरिशिखरम् ॥२३६।। ।।२३।। ततश्च-रात्रौ विविधोपायैरपि यावदसौ चचाल नो भावात् । प्रोक्तः पुन: प्रभाते मामनुरक्ता रमस्व विभो ।।२४।। सत्खाद्यपेयताम्बूलपुष्पवस्त्रादि For Personas Private Use Only in E KQXabana wwMMorary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334