________________
नवपदवृत्ति:मू.देव.
वृ. यशो KI
॥२३६॥
| समं त्यजाम्येनमम्ब ! येन कदाग्रहम् ।।९८।। ततो ज्ञात्वाऽतिनिर्बन्धं, सैतस्या अनिवर्तकम् । बभाषे पुत्रि ! यद्येवं, पूरयामि तवेहितम् ।।९९।। केवलं । सुदर्शन
कतिचिद्वत्से !, दिनानि प्रतिपालय । यावदेति जनानन्दः, कौमुदीपरमोत्सवः ॥१००॥ एवमाश्चासिता धात्र्या, गणयन्ती दिनान्यसौ । कथानकं विवक्षितावधेर्वाक्कष्टेनातिष्ठदुन्मनाः ॥१॥ अथ क्रमेण संप्राप्ते, कौमुदीदिवसे मुदा । पटहं दापयामास, प्रातरेव महीपतिः ।।२।। यथा सान्तःपुरो राजा, क्रीडोद्यानं गमिष्यति । तत: समस्तलोकेन, तत्रागम्यं निजश्रिया ॥३।। यस्तु कार्यान्तरासक्तोऽवज्ञायाज्ञां महीपतेः । लङ्घयिष्यति दण्ड्योऽसौ, दण्डेन महता किल ॥४|अत: सुदर्शन: श्रुत्वा, चिन्तयामास चेतसि । चतुर्मासकमेकत्र, राजाऽऽज्ञाऽन्यत्र दुर्घटम् ।।५।। यतो जिनेन्द्रबिम्बानां, चतुर्मासकपर्वणि । कार्या पूजा चतूरूपो, धार्यः शक्त्या च पौषधः ॥६॥ न चैतदुत्सवव्यग्रः, कर्तुं शक्ष्यामि किञ्चन । मोचयामि तदात्मानं, पुरो गत्वा महीपते: ।।७।। ततोऽनया॑णि रत्नानि, गृहीत्वाऽसौ सुदर्शन: । ददर्श नृपति तेन, पृष्टस्तुष्टेन सादरम् ।।८।। केनार्थेन त्वमायातस्ततोऽवादीत्सुदर्शनः । युष्मदाज्ञेह कार्त्तिक्यामुद्यानगमनं प्रति ।।९।। अर्हत्पूजनमस्माकं, कर्त्तव्यं पौषधस्तथा । तदत्र नापराधो न, उद्यानानागतावपि ।।१०।। राज्ञोक्तं-क्रियतां स्वेच्छया सर्वं, नापराधोऽस्ति ते क्वचित् । ततोऽर्हत्स्नात्रपूजादि, विधायासो प्रयत्नवान् ।।११।। चकार पौषधं धन्यः, सर्वत: स चतुर्विधम् । अस्थादक्षोभ्यसत्त्वश्च, प्रतिमा सार्वरात्रिकीम् ॥१२॥ इतो देव्या शिरोदुःखव्याजनान्त:पुरस्थया। प्रोक्ता धात्री त्वया मेऽद्य, मेलनीय: सुदर्शनः ।।१३।। तद्व्यापारमथैक्षिष्ट, सा प्रतिपद्य | तद्वचः । ईक्षाञ्चक्रे च तं क्वापि, रहसि प्रतिमागतम् ।।१४।। तदा च-विच्छायकमलवदनां विलोक्य नलिनी गतेऽस्तमिह मित्रे । दयिता वियोगशङ्की | | विरौति करुणस्वरं चक्र: ।।१५।। अपिच-दिशा प्रतीच्याऽङ्गनयेव तूर्णं, समुद्रपानीयजिघृक्षयाऽत्र । पर्यरयते रश्मिनियन्त्रितोऽयं, दिवाकरः कुम्भ इवाम्बुराशौ ।।१६।। ततश्च-पूर्व वस्त्राच्छादितयक्षप्रतिमाप्रवेशकरणेन । कञ्चुकिनो विश्वास्य द्वित्रा वारा: कथञ्चिदपि ।।१७।। देवी यक्षप्रतिमा: किलतीति । तेषु विश्वस्तम् । तिष्ठत्सु समानिन्ये तेनोपायेन सोऽपि तया ॥१८॥ समर्पितोऽभयादेव्याः, साऽपि तं पुरत: स्थितम् । कामात हावभावाद्यैः, क्षोभयितुं । प्रचक्रमे ।।१९।। स्पर्शालिङ्गनचुम्बनपरापि न शशाक चलयितुं तं सा । धर्मध्यानारूढं महामुनिं वीतरागमिव ।।२०।। अत्रान्तरे-क्षोभयितुमसौ लग्ना बलेन न च मया प्रतीकारः । विहितोऽमुष्या इति लज्जयेव नाशं गता श्यामा ।।२१।। तथा-पश्य समस्तां रात्रि स्थितोऽपि नाहं शशाक मोचयितुम् । अस्याः सत्पुरुषममुं त्रपयेवास्तमित इन्दुरपि ।।२२।। सर्वामपि त्रियामां कदर्थितो ध्यानतो न यश्चलित: । दृश्योऽयमिति धियेवाऽऽरुरोह रविरुदयगिरिशिखरम् ॥२३६।। ।।२३।। ततश्च-रात्रौ विविधोपायैरपि यावदसौ चचाल नो भावात् । प्रोक्तः पुन: प्रभाते मामनुरक्ता रमस्व विभो ।।२४।। सत्खाद्यपेयताम्बूलपुष्पवस्त्रादि
For Personas Private Use Only
in E
KQXabana
wwMMorary.org