SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ २३५॥ राज्ञः पुरोहितः । अत्यन्तं स्नेहसंपन्नो, ब्राह्मणः कपिलाभिधः ॥ ७१ ॥ कपिलाख्या च तद्भार्या श्रुत्वा सा गुणकीर्त्तनम् । स्वभर्तुरन्तिके जाता, साऽनुरागा सुदर्शने ॥ ७२ ॥ रहः कदाचिदालोक्य, स्ववेश्मनि सुदर्शनम् । निन्ये स्वभर्तुरातङ्ककथनच्छद्मना ततः ॥ ७३ ॥ अभ्यन्तरापवरिकां, प्रविश्य तमुवाच सा । स्वामिन् ! प्राप्तो बहोः कालात्, समयोऽयं मनोरथैः ॥ ७४ ॥ यत्रागमनं भवतः सम्पन्नं तमिह सफलयेदानीम् । मम विरहदग्धदेहं निजसङ्गजलेन निर्वाप्य ॥७५॥ श्रुत्वेदृशं वचस्तस्या, अनुरागेण निर्भरम् । आसन्नलब्धप्रतिभः सोऽभ्यधादिदमुत्तरम् ॥ ७६ ॥ किं त्वया न श्रुतं भद्रे !, षण्ढोऽपि यदहं किल । नरवेषेण तिष्ठामि, मायया मुग्धवञ्चकः ॥७७॥ ततो निवृत्तरागाऽसौ, भट्टिनी तं व्यसर्जयत् । सम्प्राप्तः स्वगृहे जातो, गाढं दीक्षाभिलाषुकः ॥ ७८ ॥ संजायते न चाद्यापि धर्माचार्यादिमीलकः । एवं दिनेषु गच्छत्सु राज्ञोद्याने कदाचन ॥ ७९ ॥ प्रारब्ध उत्सवः कोऽपि तत्राहूतः सुदर्शनः । कपिलश्च सपत्नीकोऽभयादेवीमनोरमाः ||८०|| स्वस्वपरिवारवाहनसमन्विताः सर्व एव संमिलिताः । तत्र सपुत्रां दृष्ट्वा मनोरमां कपिलया भणितम् ॥ ८१ ॥ सम्मुखमभयादेव्या: स्वामिनि ! समुपैति केयमिह देवी। सुरकुमरमिवोत्सङ्गे सुरूपमाबिभ्रती बालम् ॥८२॥ सच्छत्रचामरादिप्रवरविभूत्यन्विना स्वरूपेण । निर्जितसुरेन्द्ररामा रमणीयाभरणवेषधरा ।। ८३ ।। अभयादेव्या गदितं जाया सुदर्शनस्येयं, भद्रे ! नाम्ना मनोरमा । योऽयमङ्कगतोऽमुष्या, सोऽनयोरेव पुत्रकः ॥८४।। कपिलोवाच नो देवि !, श्रद्दधेऽहमिदं वचः । यतः सुदर्शन: षण्ढः, कथं पुत्रस्ततो भवेत् ? ।। ८५ ।। देव्योदितं कथं भद्रे !, भवत्येदमबुध्यत ? ततोऽसौ कथयामास, स्ववृत्तान्तं यथास्थितम् ||८६ ॥ हसित्वाऽभिदधे राज्ञी, मुग्धे ! त्वं विप्रतारिता । स्वदाररतिना तेन, परदारविवर्जिना ॥ ८७॥ तथाहिरूपेण सूर्पकारातिर्यथाऽनेन पराजितः । तेजसा च दिवानाथो, वपुः कान्त्या निशाकरः ॥८८॥ गाम्भीर्येण चाम्भोधिः, स्थैर्येण गिरिनायकः । तथा कथं त्वयैतस्य षण्ढत्वं वद कल्पितम् ? ॥ ८९ ॥ एषाऽपि या त्वया दृष्टा, पत्येतस्य मनोरमा । नाम्ना न नाम सद्भूतैर्गुणैरपि मनोरमा ॥९०॥ परपुरुषगन्धमिच्छति नेयं स्वप्नेऽपि तेन संभाव्या । न सुदर्शनं विनाऽस्याः पुत्रोत्पत्तिः कदाचिदपि ॥ ९१ ॥ तस्माच्छठोत्तरेणैव त्वां चक्रेऽसौ निरुत्तराम् । एवंविधार्थवैदग्ध्यं ब्राह्मणीनां क्व वा भवेत् ? ॥ ९२ ॥ एवमाभाषितोवाच साऽसूयागमानसा । जाने तवापि पाण्डित्यमेनं कामयसे यदि || १३|| साऽब्रवीन्निजबुद्ध्याऽहं कामयिष्ये न चेदमुम् । मरिष्यामि तदाऽवश्यं, प्रतिज्ञातमिदं मया ।। ९४ ।। आकारिता ततो धात्री स्वावासगतयाऽनया । पण्डिताख्या तदग्रे च, स्वाभिप्रायः प्रकाशितः ।। ९५ ।। तयाऽभाणि त्वया पुत्रि !, न सुन्दरमिदं कृतम् । अविज्ञायैव यत्तत्त्वं प्रतिज्ञा महती कृता ॥ ९६ ॥ स महात्मा यतो वत्से !, मन्यते परयोषितम् । मातरं वा स्वसारं वा तन्मुञ्चेमं कदाग्रहम् ॥९७॥ गृहीत्वा सा ततो रज्जुं, बभाण कुरु पाशकम् । प्राणैः For Personal & Private Use Only Jain Educatrnational ॥२३५॥ www.brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy