Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपदवृत्ति: मू. देव. वृ. यशो ॥२०४॥
संस्थितः । सर्वसावद्यसंत्यागसुस्थितस्त्यक्तभोजनः || ३|| ततो जननीजनकाभ्यां भणितोऽपि यदा न भुङ्क्ते न चान्यस्य कस्यचिद्वचनं विदधाति तदाऽऽह्वायितो दृढधर्मनामा तीर्थकरशासनानुरक्तः परमश्रावकः श्रेष्ठिपुत्रः समागतश्च भणितो, यथा-वत्स ! शिवकुमार आवाभ्यां प्रव्रज्याग्रहणनिरुद्धो मौनमाश्रित्य स्थितो भोक्तुमपि नेच्छति, अनेन च शोकावेगेन निर्मूलमुन्मूल्यत इवास्मन्मनः, तदन्तःपुरे भवनोदरे वा यत्र तत्र स्थितं शिवकुमारमाभाष्य भोजय केनापि प्रकारेण तेनोक्तम् - एवं करोमि, ततो गतोऽसावन्तः पुरव्यवस्थितस्य तस्य समीपं विधाय नैषेधिकीं प्रतिक्रम्येर्यापथिकीं दत्त्वा द्वादशावर्त्तवन्दनकमनुजानीत मामिति ब्रुवाणः प्रमृज्योचितभूमिमासीनः शिवकुमारान्तिके, तेन चिन्तितम् अहो ! असाविभ्यपुत्रः साधुविनयं मम प्रयुज्योपविष्टस्तत्पृच्छाम्येनं, ततः पृष्टोऽसौ तेनाप्युक्तं - भावसाधुर्भवांस्तेन मयाऽयं तव विनयः प्रयुक्तः, पुनर्भणितं च यथा किं निमित्तं त्वया भोजनं परिहृतं ?, शिवकुमारेणोक्तं मया त्यक्तो यावज्जीवं गृहे वासो गृहीता च भावप्रव्रज्या, दृढधर्मेणोक्तं-कुमार! युक्तमिदं, केवलमाहारत्यागो नोचितो यतः आहारमूलं शरीरं शरीरमूलो धर्मो धर्ममूला च मोक्षसुखप्राप्तिः तदङ्गीक्रियतामाहारः, तेनोक्तं-यदि यतिजनयोग्यः संपद्यते तदाऽङ्गीक्रियते, दृढधर्मेणोक्तं- अहं सम्पादयिष्यामि भावसाधर्भवतस्तं यतः कुशलोऽहमाहारकल्प्याकल्प्यविचारे, ततः प्रतिपन्नमनेन, केवलं यावज्जीवं मया षष्ठभक्तेनाशितव्यं, तदन्ते चाचाम्लेन पारणीयं ततोऽसौ संपादितवानस्यैवंविधं षष्ठात् षष्ठादाहारं तत्पित्रोश्चाकथयद् यथा-भोजितः कुमारः, ततस्तुष्टाभ्यां कारितो नगर्यां प्रधानोत्सवः, उपवासदिवसेषु च करोति जीवादिपदार्थविचारसारामसौ देशनां, एवं च तिष्ठतोऽस्य कुर्वन्त्यनेकप्रकारान् क्षोभणोपायान् सकलत्रादिलोकाः, न च क्षुभितोऽसौ महासत्त्वः, ततः षष्ठात्षष्ठाज्जघन्येन, सोवीरोदनपारण: । यापयामास वर्षाणि स द्वादश तपश्चरन् ॥१॥ ब्रह्मचारी गृहस्थोऽपि, विधायाराधनामसौ । मृत्वाऽन्यदा ब्रह्मलोके, विद्युन्माली सुरोऽभवत् ||२|| तस्मिश्चतुर्देवीपरिवृतो देवलोकोचितं सुखमनुभवन्निनाय दश सागरोपमाणि, सम्प्रति च सप्तदिनमिवाशिष्टमायुरुपभुज्यैष वृषभदत्तश्रेष्ठिनो धारिणीभार्याया धर्मघोषसूरिसमीपोपविष्टस्य सिद्धपुत्रस्य जम्बूद्वीपनिबन्धनं जम्बूवृक्षपृच्छावसाने विहितपुत्रजन्मप्रश्नाया: सिद्धपुत्रादिष्ट एव सिंहस्वप्नसूचितो जम्बूनामा तनूजो भूत्वा प्राप्तयौवनो महेभ्यकन्यका अष्टौ परिणीय ताच कर्षकादिदृष्टान्तानुपदर्शयन्तीस्तत्प्रत्युत्तरकरिकलेवराद्युदाहरणैः प्रतिबोध्य प्रभवराजपुत्रं च पञ्चशतसङ्ख्यचौरपरिकरितं प्रज्ञाप्य भगवतः सुधर्मस्वामिगणधरस्य पार्श्वे गृहीत्वा प्रव्रज्यां क्षपकश्रेणिसमारोहणपूर्वं केवलज्ञानमुत्पाद्य सिद्धि यास्यतीति न चात ऊर्ध्वं कश्चित्केवलज्ञानमुत्पादयिर्थ्यात, अतो भणितं मया, यथा- एतस्मिन् सुरे व्यवच्छेत्स्यति केवलम् । यच्च परिहीयमाणद्युतयो देवाध्यवनसमये भवन्ति, अयं तु निजतेजसा सूर्यद्वादशकमपि परिभवतीति पृष्टं
For Personal & Private Use Only
Jain Educaernational
B
अनाहतदेव वृत्तं
॥२०४॥
brary.org

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334