Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नवपद
॥२२९॥
पच्यमानाहारजनितमहादाघवेदनादोदूयमानो मृत्वा समुत्पेदे सप्तमनरकपृथिव्यामप्रतिष्ठानाभिधानमहानरकेऽजघन्योत्कृष्टत्रयस्त्रिंशत्सागरोपमप्रमाणवृत्ति: मू. देव. स्थितिनारकत्वेन । पुण्डरीकोऽपि समुल्लसितशुभजीववीर्ययोगेन प्रयातः कियन्तं भूभागं सुकुमालपाणिपादः (देहः), कदाचिदप्यदृष्टवृ. यशो कष्टस्तावदतिखरकिरणकरनिकरोपताप्यमानपञ्चमुष्टिकलाचलुञ्चितनिरावरणमस्तको निदाघतापातिक्रान्तितप्रवालुकादंदह्यमानचरणद्वन्द्वो रणद्वन्द्वहेतुराज्यत्यजनसुस्थमानसः शरीरपीडामात्राचलितसत्त्वोऽप्यतिशायिक्षुत्तृषाश्रमादिबाधाविधुरदेहो-नमोऽतीतानागतवर्त्तमानजिनेम्यो नमः समस्तसिद्धेभ्यो नमः संसारान्धकूपनिपतितास्मादृशप्राणिसार्वसद्धर्मदेशनाऽवलम्बनाकर्षणप्रवणाय श्रीसुस्थितसूरये, अस्तु मे तत्प्रसादात्परमचरमाऽऽराधेनत्यादि चेतसि कुर्वाणः सकलसत्त्वक्षामणापुरस्सरं निराकारप्रत्याख्यानप्रत्या स्तव्यापारस्तस्यामेव रात्रौ विप्रहाय तद्भववत्तिदशविधप्राणान् प्रययौ सर्वार्थसिद्धं महाविमानं, तत्राप्यजघन्योत्कृष्टा तस्य त्रयस्त्रिंशत्सागरोपमाणि जाता स्थितिः, ततश्युतः सेत्स्यतीति । एवं च विशुद्धसामायिकपरिपालनगुणेनायं स्वल्पकालेनाप्याराधको जात:, कण्डरीको वर्षसहस्रमपि व्रतं परिपाल्यान्ते प्रतिपतितसामायिकपरिणामदोषेण विराधको, यदुक्तं धर्मदासगणिना- "वाससहस्संपि जई, काऊण संजमं सुविउलंपि । अंते किलिट्ठभावो नवि सुज्झइ कंडरीउव्व ॥ | १ || अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकज्जं पुंडरियमहारिसिव्व जहा ॥ २॥” इति परिभाव्यास्य पालन एव यतितव्यं, भङ्गस्तु रक्षणीय इति दोषद्वारगाथाभावार्थ: ॥ यथाऽवस्थित परिपालने त्वमुष्य गुणं दिदर्शयिषुस्तद्द्वारगाथामाह
सिवसग्गपरमकारणसामाइयसंगमं तु काऊण । सागरचंदसुदंसणहेऊउ, चयंति नो पत्तं ।। ९७ ।।
शिवो-मोक्षः स्वर्गे-देवलोकस्तयोः परमकारणं प्रकृष्टहेतुरक्षेपजनकत्वेन शिवस्वर्गपरमकारणं तच्च तत्सामायिकं च शिवस्वर्गपरमकारणसामायिकं तेन सङ्गमो-मीलकस्तत्सङ्गमस्तं 'तुः ' विशेषणे, किं विशिनष्टि ?, भावेन, 'कृत्वा' विधाय, किमित्याह - 'सागरचन्द्रसुदर्शनहेतुत: ' सागरचन्द्रसुदर्शनावेद्य हेतू ताभ्यां ततः 'त्यजन्ति' मुञ्चन्ति 'नो' नैव प्राप्तं लब्धं, अत्र हेतुशब्देन हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुरिति व्युत्पत्त्या दृष्टान्तो विवक्षितः, तस्यापि जिज्ञासितविशिष्टार्थगमकत्वादिति गाथाऽक्षरार्थो । भावार्थस्तु कथानकाभ्यामवसेयः, तयोश्च सागरचन्द्रकथानकं तावद्-अस्ति प्रशस्तवस्तुविन्यासनिरस्तसमस्तदुरितोपद्रवो विपुलमेदिनीमण्डलमण्डनमसमानसेव्यतापराभूतसुरलोकः सौराष्ट्रो नाम देशः तत्रादभशुभाभ्रंलिहप्रासादशिखरशिखासमूहापहस्तितरविरथतुरङ्गमार्गा मार्गसंचरत्तरुणरमणीजनक्वणत्मणिमेखलानूपुरादिरत्नाभरणरणज्झणारावबधिरितदिग्द्वारा द्वारावती नाम नगरी, तस्या: प्रशास्ता
Jain Education International
For Personal & Private Use Only
|॥२२९॥
www.jainelibrary.org

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334