SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ नवपद ॥२२९॥ पच्यमानाहारजनितमहादाघवेदनादोदूयमानो मृत्वा समुत्पेदे सप्तमनरकपृथिव्यामप्रतिष्ठानाभिधानमहानरकेऽजघन्योत्कृष्टत्रयस्त्रिंशत्सागरोपमप्रमाणवृत्ति: मू. देव. स्थितिनारकत्वेन । पुण्डरीकोऽपि समुल्लसितशुभजीववीर्ययोगेन प्रयातः कियन्तं भूभागं सुकुमालपाणिपादः (देहः), कदाचिदप्यदृष्टवृ. यशो कष्टस्तावदतिखरकिरणकरनिकरोपताप्यमानपञ्चमुष्टिकलाचलुञ्चितनिरावरणमस्तको निदाघतापातिक्रान्तितप्रवालुकादंदह्यमानचरणद्वन्द्वो रणद्वन्द्वहेतुराज्यत्यजनसुस्थमानसः शरीरपीडामात्राचलितसत्त्वोऽप्यतिशायिक्षुत्तृषाश्रमादिबाधाविधुरदेहो-नमोऽतीतानागतवर्त्तमानजिनेम्यो नमः समस्तसिद्धेभ्यो नमः संसारान्धकूपनिपतितास्मादृशप्राणिसार्वसद्धर्मदेशनाऽवलम्बनाकर्षणप्रवणाय श्रीसुस्थितसूरये, अस्तु मे तत्प्रसादात्परमचरमाऽऽराधेनत्यादि चेतसि कुर्वाणः सकलसत्त्वक्षामणापुरस्सरं निराकारप्रत्याख्यानप्रत्या स्तव्यापारस्तस्यामेव रात्रौ विप्रहाय तद्भववत्तिदशविधप्राणान् प्रययौ सर्वार्थसिद्धं महाविमानं, तत्राप्यजघन्योत्कृष्टा तस्य त्रयस्त्रिंशत्सागरोपमाणि जाता स्थितिः, ततश्युतः सेत्स्यतीति । एवं च विशुद्धसामायिकपरिपालनगुणेनायं स्वल्पकालेनाप्याराधको जात:, कण्डरीको वर्षसहस्रमपि व्रतं परिपाल्यान्ते प्रतिपतितसामायिकपरिणामदोषेण विराधको, यदुक्तं धर्मदासगणिना- "वाससहस्संपि जई, काऊण संजमं सुविउलंपि । अंते किलिट्ठभावो नवि सुज्झइ कंडरीउव्व ॥ | १ || अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिति निययकज्जं पुंडरियमहारिसिव्व जहा ॥ २॥” इति परिभाव्यास्य पालन एव यतितव्यं, भङ्गस्तु रक्षणीय इति दोषद्वारगाथाभावार्थ: ॥ यथाऽवस्थित परिपालने त्वमुष्य गुणं दिदर्शयिषुस्तद्द्वारगाथामाह सिवसग्गपरमकारणसामाइयसंगमं तु काऊण । सागरचंदसुदंसणहेऊउ, चयंति नो पत्तं ।। ९७ ।। शिवो-मोक्षः स्वर्गे-देवलोकस्तयोः परमकारणं प्रकृष्टहेतुरक्षेपजनकत्वेन शिवस्वर्गपरमकारणं तच्च तत्सामायिकं च शिवस्वर्गपरमकारणसामायिकं तेन सङ्गमो-मीलकस्तत्सङ्गमस्तं 'तुः ' विशेषणे, किं विशिनष्टि ?, भावेन, 'कृत्वा' विधाय, किमित्याह - 'सागरचन्द्रसुदर्शनहेतुत: ' सागरचन्द्रसुदर्शनावेद्य हेतू ताभ्यां ततः 'त्यजन्ति' मुञ्चन्ति 'नो' नैव प्राप्तं लब्धं, अत्र हेतुशब्देन हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुरिति व्युत्पत्त्या दृष्टान्तो विवक्षितः, तस्यापि जिज्ञासितविशिष्टार्थगमकत्वादिति गाथाऽक्षरार्थो । भावार्थस्तु कथानकाभ्यामवसेयः, तयोश्च सागरचन्द्रकथानकं तावद्-अस्ति प्रशस्तवस्तुविन्यासनिरस्तसमस्तदुरितोपद्रवो विपुलमेदिनीमण्डलमण्डनमसमानसेव्यतापराभूतसुरलोकः सौराष्ट्रो नाम देशः तत्रादभशुभाभ्रंलिहप्रासादशिखरशिखासमूहापहस्तितरविरथतुरङ्गमार्गा मार्गसंचरत्तरुणरमणीजनक्वणत्मणिमेखलानूपुरादिरत्नाभरणरणज्झणारावबधिरितदिग्द्वारा द्वारावती नाम नगरी, तस्या: प्रशास्ता Jain Education International For Personal & Private Use Only |॥२२९॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy