SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ २३०॥ प्रधानप्रणतसामन्तसङ्घातो घातितनि:शेषविपक्षपक्षो भरतक्षेत्रत्रिखण्डाधिपत्यप्रकाशमानासमानसाहसातिरेकरञ्जितवासवो वासुदेवो राजा, तस्य चात्यन्तविश्रम्भभाजनमतिशायिस्नेहसदनं दनुजादिभिरप्यक्षोम्यसत्त्वनिकेतनं बलदेवो भाता, तत्पुत्रश्च निषधस्तस्यापि तनूजः संबादिकुमाराणामतिवल्लभः सागरचन्द्रनामा तत्रैव प्रतिवसति स्म, इतश्च तस्यामेव नगर्यामुग्रसेनाभिधाननरपतेरभिनवोपारुढयौवना निजरूपविनिर्जितसुरसुन्दरीसौन्दर्या कमलामेला दुहिता बभूव, सा च धनसेनराजसूनवे नभः सेनाय दत्ता, तत्प्रस्तावे चाकाशचारी परिव्राजकवेषधारी सम्यग्दृष्टिर्ब्रह्मचर्यव्रतो वैक्रियलब्धिसंयुतोऽनल्पकेलिकरणपरायणो | नारदो लीलया परिभ्रमंस्तद्भवनमाजगाम, स च तेन प्रधानकन्यालाभाक्षिप्तचित्तेन लक्षितोऽपि नोचितसपर्यया पूजितो, गतः प्रद्वेषं समुत्थाय ततो वेगेन प्राप्तः सागरचन्द्रसमीपं समुचिताभ्युत्थानासनदानवन्दनादिविनयपूर्वकं चाभाषितो यथा स्वागतं महर्षे! पृष्टश्च यथा दृष्टपूर्वं किञ्चिदाश्चर्यं यत् क्वचित्, | नारदेनोक्तम्-इहैवावलोकिता समस्ताश्चर्यसीमा रूपेण विजितरम्भातिलोत्तमा कमलामेला राजदुहिता, सागरचन्द्रोऽभ्यधात् सा मे स्यात्कथञ्चित् ?, नारद उवाच - नाहं जाने, यतोऽसौ नभः सेनाय दत्ता, क्षणमात्रेण विसर्जितोऽनेन, गतः कमलामेलोपान्तं तया च प्रथममेव नारदमागच्छन्तमवलोक्य विहिताभ्युत्थानादिविनयप्रतिपत्तिः, उपविष्टो नारदः, प्रणामपूर्वं भणितस्तथैव च तेन च जजल्पे - अस्यां मेदिन्यां मया द्वे आश्चर्ये निरीक्षते, एकं सागरचन्द्रो नि:शेषकलाकलापसंपन्नः सौभाग्यरूपकलितो द्वात्रिंशल्लक्षणोपेतः, अपरञ्च नभः सेनः क्षुद्रः शठतानिकेतनं गर्वी मूर्खः सर्वजनस्य द्वेष्योऽतिकुरूपशेखरकः, ततः सा विरक्ता तत्र, रक्ता सागरचन्द्रेऽब्रवीत् कथं नु नाम स मे भविष्यति ?, नारदो निजगाद-नास्मि वेद्मि, अन्ये तु कथयन्तिनभ:सेनेनापमानितो गतः कमलामेलागृहं, तदग्रे तं विनिन्द्य सागरचन्द्रं च रूपेण वर्णयित्वा तत्सङ्गमाभिलाषिण्या अस्या रूपं चित्रपट्टिकायामालिख्य सागरचन्द्रस्य दर्शितवान् ततस्तद्विषयमनुरागमस्याप्युत्पाद्योत्पतित आकाशे, तत्प्रभृत्येव च कमलामेलासागरचन्द्रौ बभूवतुः परस्पराकाङ्क्षिणौ, तत्यजतुः स्वकीयक्रीडादिव्यापारं, जातौ दुस्सहविरहवेदनादूनमानसौ, ततश्च सागरचन्द्रावस्थामाकर्ण्य समागतः शम्बकुमारोऽनेकसमचित्तयादवकुमारपरिकरितस्तदन्तिकं, तदा चासौ पराङ्मुखः कमलामेलामेवैकाग्रमनसा ध्यायन्नासीत्, ततोऽनेन पिहिते तन्नेत्रे, सागरचन्द्रेणोक्तं ज्ञाता कमलामेलाऽसि, शम्बेन हसित्वोक्तं-नाहं कमलामेला, किन्तु कमलामेल:, ततश्छलेनानेनोक्तं-त्वंमेव मे कमलदललोचनां कमलां मेलयिष्यसीति सत्यप्रतिज्ञो भवेः कुमारैश्च तस्यैवार्थस्य समर्थनार्थं शम्बकुमारो मद्यं पाययत्वा दापितो वाचं यथाऽहं परिणाययिष्यामि, मदावसाने च लब्धचेतनेन चिन्तितं कथमेतद्भविष्यति ?, यतो-नमः सेनाय दत्ताऽसौ, पितृभ्यां मयका कथम् । योज्या सागरचन्द्रेण ? दुर्घटं तदिदं महत् ॥ १॥ यदुच्यते जनैः कैश्चिदितो व्याघ्र इतस्तटी । सोऽयं न्यायो ममायातः, For Personal & Private Use Only Jain Education International गुण सागरचन्द्र सुदर्शन ज्ञाते गा. ९७ ॥२३०॥ www.jainesbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy