________________
प्रकाधुपकरणं गतत्रागच्छन्तु स वामन, अनेन हिमाहारतकायम
ज्ञातं
एकाकी, तो व्याच भवन्तो वा तत्रागच्छन्तु स वान्न, भणितवांछैन-यथा भी मदागनः पुण्डरोकिण्यामिति "स्थता वार्त्तमानाम् ।
CRORE
नवपद
K/ कामोत्कोचकारिषु पुष्पितेषु सहकारेषु सहकाराङ्करास्वादमुदितमानसेषु कलं कूजत्सु कोकिलेषु प्रमदभरपरवशत्वविघूर्णमाननागरकलोकस्थानस्थानप्रवर्त्यमानासु दोषे वृत्ति:मू.देव.
चारु चच्चरीषु वर्षसहस्रं यावत्परिपालितश्रामण्योऽपि कण्डरीक: संयमाच्चलितचित्त एकाक्येव राज्यार्थी समायातः पुण्डरीकिण्यामिति" स्थितो बहिरुद्याने, कण्डरीकवृ. यशो
उच्चतरतरुशिखरशाखायामवलम्ब्य पात्रकाद्युपकरणं गत उद्यानपालकान्तिकं, भणितवांश्चैनं-यथा भो ! मदागमतवार्ती विज्ञाप्य पुण्डरीकनरपतेः कथय ॥२२८॥
यथा युष्मद्दर्शनमाकाङ्क्षति कण्डरीकः, तद् भवन्तो वा तत्रागच्छन्तु स वाऽत्रागच्छत्विति ?, गतोऽसी, कथितं यथाभणितं, पृष्टं राज्ञा-कियत्साधुसमन्वितः कण्डरीक:?, तेनोक्तम्-एकाकी, ततो व्यचिन्ति-न शोभनमेकाकिनोऽस्यागमनं, अनेन हि प्रतिपतितपरिणाममेव तमहमाकलयामि, तस्मादुचितस्वल्पपरिजन एव गच्छामि तत्समीपं, ततो गतो यथाचिन्तितक्रमेणैव नृपतिः, यावत्पश्यत्यमुं सुकुमारहरितकायस्योपरि निविष्टं पर्यस्तिकावष्टम्भेन, सोऽपि दृष्ट्वा राजानमुत्सार्य पर्यस्तिकां स्थितस्तत्रैव पादप्रसारिकया, तदीयचेष्टाविशेषविदितान्तराभिप्रायेण च तेन नायमितोऽनन्तरमत्यन्तव्रतपराभग्नः किमप्यपरं भणितुमुचित:, केवलमनुकूलमेवास्याभिधीयत इति विचिन्तयता बभाषे-भद्र ! मया त्वं पूर्वमेव भणितो, न च तदा मदीयवचनमकारि भवता, तदिदानीमपि साधु कृतं यत्त्वमिहागतोऽसि, गृहाणेदं राज्यं, समर्पय मम स्वकीयरजोहरणादिवेषं, ततो वाञ्छन् विषयसुखमसौ राज्ये विनिवेशितो नरेन्द्रेण, सेयं क्षुधार्त्तमूर्तर्विशिष्टतरभोज्यसंप्राप्ति:-राज्यालङ्कारमादाय, कण्डरीकोऽभवन्नृपः । तद्रजोहरणं धृत्वा, पुण्डरीकोऽजनि व्रती ।।१।। पश्चात्पुण्डरीकेण कथितममात्यानां यथा-युष्माकमेष सम्प्रति नृपतिर्यामो वयं च गुरुमूलम् । चिन्तितमनोरथानां ममाद्य जाता सुनिष्पत्ति: ॥१।। इति प्रतिपादयन्नेवादृष्टगुरुपादमूलेन न भोक्तव्यं न शयितव्यमिति मनसि विधाय गाढप्रतिज्ञा प्रवर्धमानातितीव्रशुभपरिणामो निश्चक्राम नगरात्, इतरोऽपि गतो राजभवनं, व्रतभ्रष्ट एष कोऽमुष्य मुखमीक्षते इत्यभिप्रायवता परिजनेनानादरं विलोक्यमानः करोमि तावदष्टादशभक्ष्यविशेषैर्बहो: कालादद्य भोजनं पश्चाद् ज्ञास्याम्यहमेतै: साद्धमित्यापूरयन् रौद्रध्यानमादिदेश सूपकारान्-भद्रा: ! यदत्र किञ्चिद् व्याप्रियते भक्ष्यं तत्सर्व संस्कृत्योपस्थाप्यतां भोजनशालायां, तैरपि यथाऽऽदिशति देवस्तथा कुर्म से इत्यभिधाय कियत्याऽपि वेलया संपादितं तच्छासनं, कथितं तदने, उपविष्टो भोजनमण्डपे, दृष्ट्वाऽनेकप्रकारं भोज्यजातं बलिभिर्दुर्बला निर्धाट्यन्ट इति प्रेक्षणकदृष्टान्तेन प्रथमं वल्लचनकाद्यसारं भुक्त्वा पश्चाबुभुजे घृतपूरादिप्रधानवस्तूनि, तत: क्षुत्क्षामकुक्षिणा तेन तावद्भुक्तं यथेप्सितं यावज्जलावकाशोऽपि जठरे नास्य विद्यते, अत्यन्तभक्षणाच्चाभूद्रात्रौ तस्य विसूचिका, तया च बाधितो गाढम्, अनादेयतयाऽप्रतिजागर्यमाणो जनेन चिन्तयामास-यदि कथमपि ॥२२८॥ दैवादहमेतामत्रापदं तरिष्यामि तदाऽमी लोका: सर्वे निग्राह्याः खदिरकुट्टिन्या, एवं प्रवर्द्धमानातितीव्ररौद्रपरिणाम: कियत्याऽपि वेलयाऽपरि-3
562626
JainEducatTermabonal
For Personal & Private Use Only
Ibrarv.org