________________
वृत्तं
नवपदवृत्ति:मू.देव. वृ. यशो ॥१९४॥
सप्तमपृथिवीगतेः नृपतिश्चिन्तयामास, तच्छ्रुत्वा निजचेतसि ।।२३।। हा ! किमेवं जिनो जुते, नि:सङ्गस्य तपस्विनः । सप्तम्या: किं भुवो ध्यानं,
भावदेव साधकं भवति क्वचित् ? ॥२४॥ यद्वाऽन्यथैव नाथेन, निर्दिष्टं मयका पुनः । अन्यथा श्रुतमित्येव, चिन्तयत्येव भूभुजि ।।२५।। क्षणमात्रेण संजज्ञे, | नभस्तारकितं यथा । गच्छद्भिर्देवसङ्घातविमानैर्युतिभासुरैः ।।२६।। ध्वानपूरितरोदस्यस्तदा दध्वान दुन्दुभिः । उल्ललास सुराणां च, घनो जयजयारव: ॥२७॥ ततो भूयोऽपि पप्रच्छ, विनयावनतमस्तक: । जिनेन्द्र श्रेणिको नाथ !, किमेतज्जातमद्भुतम् ? ॥२८॥ देवा यत्र प्रयान्त्येते, कृतदुन्दुभिनि:स्वनाः । भगवानभ्यधाद्भूप!, प्रसन्नेन्दुमहामुनेः ! ॥२९।। केवलज्ञानमुत्पन्नं, पूजार्थं तत्र यान्त्यमी । स प्राह यन्मया पूर्व, श्रुतं मिथ्यैव किन्नु तत् ? ।।३०।। त्रैलोक्याधिपतिर्बुते, न मिथ्या किन्तु तत्क्षणे । रौद्रध्यानममुष्यासीद्, राजोवाच, पुनर्जिनम् ।।३१।। महदाश्चर्यमाभाति, ममैतज्जिनपुङ्गव ! कथं तत्तादृशं ध्यानं ?, कथं वा ज्ञानमीदृशम् ? ॥३२।। किं वा निबन्धनं तत्र, ध्याने जातं महामुनेः ? । तीर्थनाथोऽब्रवीद्राजन् !, किमाश्चर्यमिदं तव? | १॥३३॥ येनैकस्मिन् दिवसे सङ्ख्यातीता भवन्ति कर्मवशात् । ब्राह्यनिमित्तापेक्षा: शुभाशुभा जीवपरिणामाः ॥३४।। पृष्टं निबन्धनं यच्चं, ध्याने तच्छृणु पार्थिव ! । यदा त्वं वन्दनार्थं नो, निर्गतो नगरानृप ! ।।३५।। सुमुखो दुर्मुखश्चान्यस्तदैवागात् त्वदग्रतः । अवोचत् सुमुखस्तत्र, दृष्ट्वा तं मुनिसत्तमम् ।।३६।। अहो ! धन्यः सपुण्योऽयं, यस्त्यक्त्वा राज्यमुत्तमम् । घोरं तपश्चचारैवं, संसारसुखनि:स्पृहः ।।३७।। दुर्मुखस्त्वाह धन्यत्वं, कुत एतस्य विद्यते ? । असञ्जातबलं बालं, प्राव्राजीत् प्रविहाय य: ॥३८।। स सम्प्रति सुतस्तस्य, वैरिभि: परिभूयते । अशक्तो विग्रहे तेषां, च्याविंतो राज्यसम्पदः ।।३९।। एतत्तस्य वचः श्रुत्वा, कषायवशवर्त्तिताम् । यात: प्रसन्नचन्द्राख्यः, साधुश्चिन्तितवानिदम् ।।४०।। मम पुत्रस्य को राज्यं, गृह्णाति मयि जीवति ? । त्रोटयामि शिरस्तस्य, य एवं कुरुते मम ।।४।। एवं विचिन्तयन्नेव, धर्मध्यानं विमुच्य स: । रौद्रध्यानमनुप्राप्तः, कोपलुप्तविवेकधीः ॥४२।। येन-भक्ष्यमभक्ष्यं पेयमपेयं, कृत्यमकृत्यं चार्यमर्चायम् । धर्ममधर्म सातमसातं, क्रोधवशो जीवो नहि वेत्ति ।।४३।। अपिच-प्रज्वलितकोपवह्निः क्षणेन चरणेन्धनं दहति जीव: । कष्टानुष्ठानशतैर्यदर्जितं प्रचुरकालेन ॥४४॥ ततोऽसौ चेतसैवाशु, शत्रुभिः सह सङ्गरम् । प्रारेभे कर्तुमत्यन्तं, विस्मृतात्मा प्रकोपतः ।।४५।। सर्वायुधक्षयो जातो, यावदेतस्य तत्र च । तावत्प्रसारित: पाणिः, शिरस्त्राणजिघृक्षया श्र ॥४६॥ न चासौ तत्समापन्नः, केवलं लुञ्चितं शिरः । पस्पर्शावेशविवशः, प्रत्यावृत्तस्तत: पुन: ।।४७|| हा ! हा ! दुष्ठु ! मयाऽचिन्ति, क्रोधान्धीकृतचेतसा । मिथ्यादुष्कृतमेतस्य, संस्कृतात्मा ददाम्यहम् ॥४८॥ को वाऽत्र कस्य तनयः, पिता भाताऽथ वैरिकः ? । नारकादिचतूरूपभवावर्तेऽटत: KA
Jain Educ
h eratonal
For Personal & Private Use Only
willibrary.org