SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. - वृ. यशो ॥१९५॥ त। उवाच प्रेक: सुरो महातेजाश्चतुर्देवीसमन्वितनदम् ॥५६॥ एतस्मिन् भरतप्तमभूप्राप्तिमोक्षलाभोऽथवा भामयादितः । पूर्वमेष इदानी तक भूयः, कथं देवस्य कवालयः विद्युन्मालीति विख्यातो, दीयत्वाच्छदं क्व यास्यति ? । समये तत्र स्वाविज्ञातभावार्थः सदा ॥४९।। यत:-सर्वेऽपि पितरो जाताः, सर्वेऽपि मम पुत्रिका: । सर्वेऽपि वैरिणो लोके, सर्वेऽपि प्रियबान्धवाः ।।५०॥ कस्योपरि विधीयेते, रागद्वेषौ मनस्विना? । तदेवमनवस्थायिस्वभावे दारुणे भवे ।।५१।। एवं विचिन्तयन्नेवापूर्वं करणमाश्रित: । आरूढः क्षपक्रेणिं, लेभे केवलसंविदम् ।।५२।। तदेवं भूप ! भवता, यदाऽयं प्रविलोकित: । तदा दुर्मुखदुर्वाक्यप्रकोपवशगोऽभवत् ।।५३।। तेनैव सप्तममहीयोग्यध्यानो मयोदितः । पूर्वमेष इदानीं तु, वैराग्योत्पत्रकेवलः ॥५४|| अत एव-गुर्वी चित्तक्रियैवात्र, मनोवाक्कायकर्मसु । यया सप्तमभूप्राप्तिर्मोक्षलाभोऽथवा भवेत् ॥५५॥ एवं विज्ञातभावार्थः, पुन: प्राह नराधिपः । सुरासुरौघसंपूज्यं, केवलं भगवन्निदम् ।।५६।। एतस्मिन् भरतक्षेत्रे, व्यवच्छेदं क्व यास्यति ? । समये तत्र चायातो, वन्दनार्थ जगद्गुरोः ।।५७।। एक: सुरो महातेजाश्चतुर्देवीसमन्वितः । विद्युन्मालीति विख्यातो, दर्शयित्वा जिनस्तकम् ।।५८।। अवादीत् केवलस्यात्र, व्यवच्छेदो भविष्यति । उवाच श्रेणिको भूयः, कथं देवस्य केवलम् ? ।।५९॥ तीर्थनाथोऽवदद्राजन् !, एष सप्तमवासरे । च्युत्वा भविष्यति नरः, स च प्राप्स्यति केवलम् ।।६०।। नृपतिः प्राह यद्येवं, कथमेतस्य वीक्ष्यते । ईद्युतिर्यतो देवाश्च्युत्काले क्षीणतेजस: ।।६।। उवाच तीर्थकृत्पूर्वमस्यासीद् या द्युति: परा । तस्या असङ्ख्यभागोऽपि, नेदानी नृप ! विद्यते ।।६२।। जगाद श्रेणिको भूयः, किमेतेनान्यजन्मनि । मुनिन्द्र ! सुकृतं चक्रे, येनास्य द्युतिरीदृशी? ।।६३।। जगद्गुरुणा भणितम्-आसीत् इहैव मगधाजनपदे सुग्रामाभिधानग्रामे आर्जवनामा राष्ट्रकूट: कुलपुत्रकः, तस्य रेवती भार्या, तया च सह विषयसुखमनुभवत: कालक्रमेणोदपादि अस्य पुत्रद्वयं, प्रथमो भवदत्तो द्वितीयो भवदेवः, प्राप्तौ च परिपाट्या यौवनम्, अन्यदा समागतास्तत्र सुस्थिताचार्याः, तद्वन्दनानिमित्तं निर्जगाम सुग्रामवासी लोकः, तन्मध्ये भवदत्तभवदेवावपि गतौ, दृष्ट्वा भगवन्तमाचार्य वन्दितवन्तौ भावसारं, तेनाप्यानन्दितौ दुष्टाष्टकर्मेन्धनानलेन धर्मलाभेन, निविष्टौ गुरुचरणनिकटवर्त्तिनि भूपृष्ठे, शेषलोकोऽप्यभिवन्द्य गुरुमुपविष्टो यथास्थाने, अत्रान्तरे प्रारब्धा सूरिणा धर्मदेशना, त्तद्यथा-संप्राप्य मानुषत्वादिसामग्रीमतिदुर्लभाम् । भो भव्याः ! धर्म एवेह, करणीयो हितैषिभिः ॥१।। स च प्राणिवधालीकादत्ताब्रह्मविवर्जनात् । तथा परिग्रहत्यागाज्जायते नान्यथा पुन: ।। २।। य एतं कुरुते धर्म, सर्वाशंसाविवर्जितम् । स्वर्गमोक्षसुखं तस्य, वर्त्तते करपल्लवे ।।३।। यस्तु प्राणिवहत्यादिपापेषु सततं रतः । दु:खं नरकतिर्यक्षु, प्राप्यं तेन पुनः पुनः ॥४|| एतदाकर्ण्य प्रतिबुद्धो भवदत्तो जग्राह प्रव्रज्या, विजहार च सह गुरुभिः, अन्यदाऽऽचार्या विज्ञप्ता एकेन साधुना, यथा-युष्मदनुज्ञया वाञ्छामः स्वजनवर्गान्तिकमभिगन्तुं, मा कदाचिन्मामवलोक्य तत्रातिस्नेहसंबद्धो मम कनीयान् भ्राता प्रविजिष्यति, ततो विसर्जितो बहुश्रुतसाधुसमेतोऽसौ गुरुणा, दृष्ट्वा जातिवर्ग समागत: स्तोकदिनैरेव, आलोचितं च गुरुणां, यथा-तद्योग्या पितृभ्यां कन्या वरिता तेन स न प्रव्रजितः, Jain Educ a tional For Personal & Private Use Only wwAmbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy