Book Title: Navpad Prakaranam
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
2280000888
नवपद
K इत्येवं च सुभद्रायाः सीतायाश्चेह परत्र च कल्याणप्राप्तिमवगम्य चतुर्थव्रते यत्न: कार्य: इत्युपदेशपरो गाथाभावार्थ: ।। व्याख्यातं गुणद्वारम्, अधुना यतनोच्यतेवृत्तिःमू.देव.
छण्णंगदंसणे फासणे य गोमुत्तगहणकुस्सुमिणे । जयणा सव्वस्थ करे इंदियअवलोयणे च तहा ॥५३॥ वृ. यशो
छन-अप्रकटं तच्च तदङ्गं च-शरीरावयवस्तस्य दर्शनम्-अवलोकनं छन्नाङ्गदर्शनं तस्मिन्, तथा स्पर्शनंछुप्तिश्छन्नाङ्गस्यैव तस्मिन्, 'च' ॥१५५॥
समुच्चये, तथा गवां मूत्रं गोमूत्र-सुरभिप्रश्रवणं तस्य ग्रहणम्-उपादानं तच्च कुत्सित: स्वप्न: कुस्वप्नश्च-दुःस्वप्नस्तत्तथा तस्मिन्, समाहारत्वादेकवचने, गोमूत्रग्रहणे कुस्वप्ने, एतस्मिंश्चतुष्टयेऽपि किमित्याह-'जयणा सव्वस्थ करे'त्ति 'यतना' गुरुलाघवालोचनप्रवृत्तिरूपां 'सर्वत्र' सर्वस्मिन् ‘कुर्यात्' विदध्यात्, एतदुक्तं भवति-पुरुषेण गृहीतचतुर्थाणुव्रतेन स्त्रीणां स्त्रीभिश्च पुरुषाणामङ्गोपाङ्गानि नोपेत्यकरणेन द्रष्टव्यानि स्पृष्टव्यानि वा, दृष्टस्पृष्टेषु KB च कथञ्चिन्न तेषु रागबुद्धि: कार्या, यच्च गोमूत्रग्रहणं तदपि गोयोनिमर्दनेन न कर्त्तव्यमेव, किन्तु यदा स्वभावेनैव मूत्रयति गौस्तदा तद्ग्राह्यं, आत्यन्तिककार्ये तु गोयोनिमर्दनेऽपि तत्कोमलस्पर्शसुखाभिषङ्गो न विधेय:, कुस्वप्ने तु स्त्रीसेवादिलक्षणे एवं यतना-प्रथममेव धर्मध्यानपरेण पञ्चनमस्कारमङ्गलपाठपूर्वं 'आदावत्यभ्युदया मध्येशृंगारहास्यदीप्तरसा: । निकषे विषया बैभत्स्यकरुणलज्जाभयप्रायाः ॥१।। यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ।।२।। इत्यादिभावनाजनितवैराग्येण जन्तुना स्वप्तव्यं येन तथाविधकुस्वप्नलाभ एव न भवति, अथ कथञ्चिन्निद्रापारवश्ये मोहोद्रेकाद्भवति तदा तत्कालमेवोत्थाय ईर्यापथिकीप्रतिक्रमणपूर्वमष्टोत्तरशतोच्छासप्रमाण: कायोत्सर्ग: कार्य इति, न केवलमेषु सर्वेषु यतनां कुर्याद्, 'इन्द्रियावलोकने च तथा' इन्द्रियाणां-स्पर्शनादिकरणानामवलोकनं-दर्शनमिन्द्रियावलोकनं तस्मिंश्च, तथा । प्राग्वदेव यतनां कुर्यादिति सम्बन्धः, उक्तं चैतच्छय्यम्भवादिभि:-'अंगपच्चंगसठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥१।। गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दटुं । साहरइ तओ दिट्टि नय बंधइ दिट्ठिए दिट्टि ।।२।।" इति गाथार्थः ।।५३।। गतं यतनाद्वारम्, अतिचारद्वारमस्यैवाह
परदारवज्जिणो पंच हंति तिण्णि उ सदारसंतुढे । इत्थीए तिण्णि पंच व भंगविगप्पेहिं अइयारा ॥५४॥
इह व्रते पञ्चातिचारा इत्वरपरिगृहीतागमनापरिगृहीतागमनानङ्गक्रीडापरवीवाहकरणकामभोगतीव्राभिलाषाख्या:, एतद्वतप्रतिपत्ता द्विविध:- एक: ॥१५५। परदारवर्ज़कोऽपरः स्वदारसन्तोषी, अथवा नर: स्त्री वा, अनयोश्चैतदतिचारकृतो यो विशेषस्तं दर्शयति-'परदारवर्जिन:' अन्यकलवत्यजनशीलस्य 2
Jain Educate
national
For Personal & Private Use Only
ww
&
brary.org

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334