________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥१३॥
नव गुप्तयो-ब्रह्मचर्यरक्षणप्रकारा: स्त्र्यादिसंसक्तवसतिविसर्जनादयो यत्र तत् नवगुप्ति, भावनाभिः सहितं, कियत्यो भावना: ? इत्याह-पञ्च, यदिवा नव च ता गुप्तयश्च नवगुप्तय: पञ्च च ता भावनाश्च पञ्चभावनाः, नवगुप्तयश्च पञ्चभावनाश्च ताभिः सहितं, तत्र नव गुप्तयो यथा-"वसहि १ कह २ निसिज्जि ३ दिय ४ कुटिंडतर ५ पुव्वकीलिय ६ पणीए ७ । अइमायाहार ८ विभसणा ९ य नव बंभगुत्तीओ ॥१॥" भावना: पञ्च इमा:-"आहारगुत्ती १ अविभूसियप्पा २, इत्थिं न निज्झाइ ३ न संथवेज्जा ४ । बुद्धे मुणी खुद्दकहं न कुज्जा ५, धम्माणुप्पेही संधए बंभचेरं ॥१॥" भूय: किंविशिष्टं ?, उच्यते-“कामचतुर्विंशतिरहितं' काम्यन्ते-अभिलष्यन्ते ये ते कामास्तेषां चतुर्भिरधिका विंशतिश्चतुर्विंशतिः, सा चैवं-संप्राप्तासंप्राप्तभेदाद्विविध: कामः, तत्र संप्राप्तश्चतुर्दशविधो दृष्टिसम्पातदृष्टसेवादिलक्षण:, तदुक्तं दशवैकालिकनियुक्तौ-"दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो ३ ॥१॥ हसिय ४ ललियो ५ वगूहिय ६ दंत ७ नहनिवाह ८ चुबणं चेव ९ । आलिंगण १० आयाणं ११ कर १२ सेवण १३ ऽणंगकीडा य १४ ॥२॥" तत्र च दृष्टिसम्पात:-स्त्रीणां कुचाद्यवलोकनं १ दृष्टिसेवा च भावसारं तदृष्टेदृष्टिमीलनं २ संभाष:-संभाषणमुचितकाले स्मरकथाभिर्जल्प: ३ हसितं वक्रोक्तिगर्भं प्रतीतं ४ ललितं पाशकादिक्रीडा ५ उपगूहितं-परिष्वक्तं ६ दन्तनिपातो-दशनच्छेदविधि: ७ नखनिपातो-नखरदनजाति: ८ चुम्बन-वक्रसंयोग: ९ आलिङ्गनंगात्रसंश्लेषः १ आदानं-कुत्रापि ग्रहणं ११ 'करसेवणं'ति प्राकृतशैल्या करणासेवने तत्र करणं-नागरकादिप्रारम्भयन्नं १२ आसेवनं-मैथुनक्रिया १३४
अनङ्गक्रीडा च अस्यादावर्थक्रियेति १४ । अयं प्रथमपादद्वयोनगाथाद्वयोक्तः सम्प्राप्तकामश्चतुर्दशधा, असम्प्राप्तकामश्च दशधैवम्-“प्रथमे जायते । | चिन्ता, द्वितीये द्रष्टुमिच्छति । तृतीये दीर्धनिःश्चासश्चतुर्थे ज्वरमादिशेत् ।।१।। पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे तु भवेत्कम्पः,
उन्मादश्चाष्टमे तथा ।। २।। नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् ॥' अथवा दशवैकालिकनियुक्त्यनुसारेणैवमसम्प्राप्तकामो दशविध:-तथा च | तदुक्तम्-"तत्थ असंपत्तोऽत्था १ चिंता २ तह सद्ध ३ संभरणमेव ४ । विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ तब्भावे | ९ ॥१॥ मरणं च १० होइ दसमं''ति, अस्या अर्थ:-तत्रासंप्राप्तकामोऽयं 'अर्थे'ति अर्थनमर्थ:-अदृष्टेऽपि विलयादौ श्रुतेस्तदभिप्रायमात्रमित्यर्थः । १ तत्रैवाहों रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता २ तथा श्रद्धा-तत्सङ्गमाभिलाष: ३ स्मरणं-कल्पिततद्रूपस्यालेख्यादिविनोद: ४ विक्लवता-॥१३ तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता ५ लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ प्रमादः-तदर्थमेव सर्वारम्भेष्वप्रवर्त्तनं ७ उन्मादो-KA
Jain EducatX
abonal
For Personal & Private Use Only
ww.
brary.org