Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ स राम आत्मादिरुपाददेऽभिधां, तृतीय आनन्दपदादिमां बराम् । य आत्मशब्दं गुणवाचिशब्दतो, विकार्य रामे विजयं समादधत् ॥ ५६ ॥ उदाहृतेष्वेषु विनेयशिक्षणे, स वृद्धिचन्द्रोऽभवदग्रणीमुनिः । समेऽप्युपाये विनयादिरञ्जिता, विनेयशिक्षाऽस्य फलेग्रहिर्यतः ॥ ५७ ॥ सनेमचन्द्रः शुभभाग्यवैभवाद्, गुरुं तमाप्तं हृदयेऽकरोत् स्वयम् । न कल्पवृक्षो वरदातृतास्पदं, स्वयं हि सेव्योऽर्थिभिरेव किं गुणैः ॥ ५८ ॥ सुनिश्चिते तत्र हृदा गुरौ यतो, गुणाधिके भावपुरस्थिते पुनः । तदन्तिकं गन्तुमना ह्यभावयत्, भवस्थितिं सूक्ष्मधियेत्थमिद्धधीः ॥ ५९ ॥ न मे परप्रीतिपदाय मत्पिता, कुटुम्बसम्पोषणप्रत्यलं सुतम् । झटित्यनुज्ञां कथमप्यदुःस्थितो, जिनेन्द्रदीक्षार्थमसौ प्रदास्यति ॥६० ॥ कथं नु माता सुतवत्सला तथा, भवप्रवृत्त्येकनिबद्धमानसा । सहिष्यति त्यागमकाल एव मे, गृहस्य गेहोचितकर्मपण्डिता ॥ ६१ ॥ कुटुम्बवर्गस्तु निजार्थमप्यलं, मम प्रवृत्तिं प्रतिरोत्स्यति ध्रुवम् । न दृश्यते सम्प्रति हेतुरीदृशो, भवेदनुज्ञा ननु सर्वतो यतः ॥ ६२ ॥ इमे यथा स्वस्वहितार्थमुद्यता, मदिष्टसिद्धिं गणयन्ति नो वराम् । तथैव चाऽहं स्वहितार्थमुद्यतो-ऽप्युपैमि चैषां कथमीहितं स्वयम् ॥ ६३ ॥ सहस्रशः सन्ति च पुत्रिणो जना, वसुन्धराभारतयैव विश्रुताः । स एव पुत्री विरलस्तु गीयते, सुतो यदीयः स्वपरोपकृत भवेत् ॥ ६४ ॥ जनो गृहस्थः स्वहितेऽपि कातरः, परापकार्येव विलोक्यतेऽभितः । सुदीक्षितस्त्वत्र मुनिर्जनान् बहून्, नयन् सुमार्गे स्वकुलं पुनाति हि ॥ ६५ ॥ कुलद्वयस्याऽपि च कीर्तिरुज्ज्वला, जिनेन्द्रदीक्षाग्रहणेन मे धुवम् । अतो ह्यनुज्ञामनवाप्य पितृतो, गुरोः सकाशे गमनं वरं मम ॥ ६६ ॥ इत्थं श्रीनेमचन्द्रो विदितनिजहितो निर्ममो बन्धुवर्गे वैराग्याकृष्टचित्तो भवविभवततौ निःस्पृहो धर्मरक्तः । कार्ये स्वस्याऽप्रमत्तः पितरमनुसरन् प्राप्य कालं सुयोग्यं गुप्तोऽगाद् वृद्धिचन्द्रं प्रति गुरुप्रवरं निर्भयीभूय विज्ञः ॥ ६७ ॥ इति द्वितीयः सर्गः ॥ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146