Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 81
________________ Jain Education International एवं सूरिवरं विलोक्य जनता शङ्कापरा भूतले, स श्रीनन्दनसूरिराजमघवा प्रह्लादयत्यन्वहम् यस्य प्रौढप्रतापभानुभयतः सन्त्रासमासादयन्, सूर्य: सङ्क्रमणं नभस्यनुपलञ्चर्कर्ति सङ्क्षोभतः । यद्वाचामृततो निरस्तमहिमा जातः क्षयी चन्द्रमाः, स श्रीनन्दनसूरिराजमघवा भूयाज्जगच्छ्रेयसे प्राप्याssचार्यपदं दधात्यनुपमं स्वान्तं सुखाधायकं, धर्मस्योद्धरणे भवाब्धितरणे निर्वाणदे सत्वरम् । आचार्येन्द्रवरोऽयमेवमखिलं कार्यक्रमं संवहन्, नैजां सूरिपदोद्भवां विभवितां प्रोद्भासयत्यन्वहम् नानाकर्मलताङ्कुरालिजटिलीभूतात्मना चेतसा, मोहेनेह समाकुले भववने बम्भ्रम्यमाणा जनाः । तेषां शान्तिकृते सुधामधुरया वाचोपदेशं ददत्, श्रीमन्नन्दनसूरिराड् विजयते विश्वार्तिहा भूतले सङ्ख्यातीतभवेषु या सुवितता मोहान्धकारावली, रागद्वेषपरम्परापरिगता सर्वार्तिसंवर्धिनी । तां नीत्वा विलयं विवेक विधिना वैराग्यसाम्राज्यभाक् श्रीमन्नन्दनसूरिराड् विजयते विश्वार्तिहा भूतले वयोवृद्धोऽपि सोत्साहः सत्त्वाढ्यः सूरिपुङ्गवः । नेमिसूरीश्वरारब्धं, समाप्नोत् कार्यमादरात् अवशिष्टानि कार्याणि निर्वक्ष्यति स सत्वरम् । क्रियासिद्धिस्तु सत्त्वे स्यात्, सा नोपकरणे मता सूरिचक्रेश्वरः सोऽयं, जगन्मङ्गलकारकः । कल्याणं विकिरन् विश्वग्, दीर्घायुर्भवतान्मुदा वियद्वह्निनभोनेत्रवर्षे (२०३०) पौषे सिते दले । बुधेsरिथसप्तम्यां श्लोका विरचिता मुदा कविना भालचन्द्रेण, दयाशङ्करसूनुना । प्रशस्तिरेषा रचिता, स्तम्भतीर्थाधिवासिना ७४ For Private & Personal Use Only ॥ १९ ॥ ॥ २० ॥ ॥ २१ ॥ ॥ २२ ॥ ॥ २३ ॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥ ॥ २७ ॥ ॥ २८ ॥ शासनसम्राड्-1 -विशेषः www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146