Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ कण्ठाभूषणम् डॉ. आचार्यरामकिशोरमिश्रः लोपामुद्रा मुनेरगस्त्यस्य धर्मपरायणा कर्मनिष्ठा च भार्याऽऽसीत् । सा पत्या सह तपोवने निवसति स्म । राजा ऋषेरगस्त्यस्याऽऽश्रममागच्छति यदा कदा स्वपत्न्या सह तस्य दर्शनार्थमाशीर्वादाय च । राज्ञी सुन्दराभूषणावृता भवति स्म । तां दृष्ट्वा लोपामुद्राया हृदये वाञ्छा जागरिता, यत्तस्याः पार्वेऽप्याभूषणानि सन्तु । अतः सा स्वपतिमेकदा कथितवती-स्वामिन् ! तस्याः समीपे किमपि सुवर्णाभूषणं नास्ति । X तस्याः कण्ठे त्वेकं सुवर्णाभूषणमवश्यमेव स्यात् । ऋषिरगस्त्यस्तस्या इच्छां पश्यंस्तामुक्तवान्-प्रिये ! कस्मिन्नपि दिने राजानमेकं कण्ठाभूषणं याचित्वा तुभ्यं प्रदास्यामि । __ एकदा मुनिरगस्त्यो राजप्रासादं गतः । स एकं कण्ठाभूषणं स्वपत्न्यै राजानं याचितवान् । राजा यदा कण्ठाभूषणं प्रदातुं राज्ञी जगाद, तदा मुनिना कथितम् -' राजन् ! यत्कण्ठाभूषणं भवान् मम पत्न्यै प्रदास्यति, तद् भवदर्जितधनस्य भवेत्, प्रजाया धनस्य न स्यादिति । राज्ञा निवेदितम् - 'मुने ! यानि सुवर्णस्याऽऽभूषणानि भवन्ति, तानि सर्वाणि प्रजासकाशात् प्राप्तैर्धनैर्निर्मितानि सन्ति ।' ऋषिणा प्रजाधनेन निर्मितं कण्ठाभूषणं ग्रहीतुं निषेधः कृतः । आश्रममागत्याऽगस्त्येन स्वपत्नी लोपामुद्रा कथिता - राज्ञः समीपे तदर्जितधननिर्मितं किमपि सुवर्णाभूषणं नाऽस्ति । अतः प्रिये ! मा प्रजाधननिर्मितं कण्ठाभूषणं न गृहीतम् ।। लोपामुद्रा स्वपतिमगस्त्यं कथितवती - स्वामिन् ! भवता प्रजाधननिर्मितं कण्ठाभूषणं न गृहीत्वा शुभं कृतम् । न जाने, प्रजाधनं कीदृशं स्यात् ? राजकोषस्तु प्रजाधनेनैव परिपूर्णो भवति । राजा प्रजासकाशात् कररूपेण सुवर्णाभूषणान्यपि प्राप्नोति । प्रजाभूषणान्येव राजभूषणानि भवन्ति । अतो राजधनमधर्मार्जितधनं भवति । अधर्मार्जितं राज्ञ आभूषणमस्माकं पुण्यानि नाशयितुं समर्थं सम्भवति । अतः स्वामिन् ! अस्माकं तप एवाऽस्मदीयं कण्ठाभूषणमस्ति । प्रिये ! सत्यमुक्तं त्वया । एहि, तपस्तप्तुं संलग्नौ भवेव । २९५/१४, पट्टीरामपुरम्, प खेकड़ा (बागपत) उ.प्र. २५०१०१ ११९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146