Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 116
________________ नगरनिवासव्ययो न मया सोढुं शक्यते । यद्यपि सुनिश्चितमिदं यत् छात्रवृत्तिर्मयोपलप्स्यते, तथाऽपि प्रारम्भे तु सर्वतोभावि कृच्छ्रमेव समवलोक्यते । न मम भालपट्टेऽङ्कितः प्रयागविश्वविद्यालयः । - साधूक्तं भवता । नाऽङ्कितो भवद्भालपट्टे प्रयागविश्वविद्यालयः । तत्कार्यमहं करिष्यामि । साट्टहासमवादीत् श्रीपालः । बन्धो ! जानात्येव भवान् यन्मूर्तिकारा न भवन्ति भगवन्माहात्म्यविशारदाः । शिलालेखटाङ्किका न भवन्ति पण्डिताः श्लोकार्थवेत्तारः । कविप्रणीतं पद्यजातं • जयघोषणादिकं दर्श दर्शमेव सयत्नं तत्सर्वमुट्टङ्कयन्ति । एवमेव भवबालमित्रमहमपि पञ्चमकक्षोत्तीर्णो भवद्भविष्यमजानन्नपि भवद्भालपट्टे प्रयागविश्वविद्यालयं लिखामि । पश्य बन्धो ! इलाहाबादनगरोपकण्ठस्थिते गडरियापुरनाम्नि ग्रामे वयं प्रायेण . विंशतिमिता रिक्शाचालका निवसामः । कस्यचिदाभीरस्य तद् गृहम् । तत्रैवाऽस्माभिः सह भवानपि कोणे कस्मिंश्चित् निवसतु । स्वकीयं भोजनं स्वयमेव पचतु । यथाऽहमात्मनः कृते गोधूमचूर्ण-द्विदल-तैल-लवण-शाकादिकस्य प्रबन्धं करोमि । * तथैव भवतोऽपि प्रबन्धं विधास्ये ! बन्धो महेश्वर ! पण्डितकुलोत्पन्नोऽसि । अत्र ग्रामटिकाविद्यालये न ते प्रतिभा विकासमवाप्स्यति । पामराणां सङ्गतौ क्व परिष्कारः ? परन्तु तत्र प्रयागे सुरुचिसम्पन्नानां साहचर्ये भवज्जीवनं देदीप्यमानं भविष्यति । - तदलं विचार्य । मया सहैव प्रस्थातव्यम् । शापितोऽसि भवान् आवयोः सौहृदेन । अस्मिन् विषये न केनाऽपि सह काऽपि मन्त्रणा कार्या, न वा . साहाय्यं ग्राह्यम् । अहमस्मि भवता सहैव ! इति श्रुत्वैवाऽहं श्रीपालं सप्रणयमाकृष्य सपरीरम्भं क्रोडे कृतवान् । दिनद्वयानन्तरमेवाऽहं श्रीपालेन सार्धमिलाहाबादमागतवान् । यथाऽऽख्यातमासीत् र श्रीपालेन तत्सत्यमासीत् । विविधजात्युत्पन्नाः सर्वेऽपि रिक्शाचालका बन्धुत्वरज्जुनिबद्धा , महता प्रेम्णा तत्राऽऽभीरगृहे निवसन्ति स्म । केचन दिवाकाले, केचिच्च रात्रौ रिक्शां* चालयन्ति स्म । केषाञ्चित् समवेतभोजनव्यवस्थाऽसीत् । कश्चिच्चैकल एव पचति : * स्म । प्रायेण सर्वेऽपि प्रतिवेशिग्रामवासिनो मिथ: परिचिता आसन् । तेषु द्वित्रा ० निर्धनब्राह्मणकुलोत्पन्ना युवानोऽप्यासन् । १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146