Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ द्वादशकक्षां प्रथमश्रेण्यां समुत्तीर्य शिक्षाग्रहणार्थं प्रयागमागत आसम् । ग्रामटिकामृत्तिकायां समुत्पन्नस्तावता कालेन इलाहाबादनगरमपि सम्यक्तया न ज्ञातवान् । । परन्तु ममैव ग्रामस्य निवासी श्रीपालः प्रयागनगरे रिक्शायानं चालयति स्म । अन्त्यजकुलोत्पन्नोऽसौ मया सहैव पञ्चमी कक्षां यावत् शिक्षामग्रहीत् । पश्चादसौ . गृहदैन्यवशात् पठितुं नाऽशकत् । परन्तु सहाध्ययनकाले मयि नितरामसौ स्निग्ध * आसीत् । ततश्चाऽसौ कुटुम्बपोषणार्थं किञ्चिदर्जितुं निजावुत्तेन सार्धमिलाहाबाद- नगरमुपागमत् । विगतसप्तवर्षेभ्योऽसौ तत्रैवाऽऽसीत् । यदाऽसौ मां प्रथमश्रेण्यामुत्तीर्णं श्रुतवान् तदा स्वहर्षं प्रकटयितुं मामपश्यत् । चिरकालानन्तरमावयोः सङ्गमो जातः । स कदाचिदेव ग्राममागच्छति स्म । o आगतोऽप्यसौ प्रायेण स्ववसतावेव निरुद्ध आसीत् । यावदहं तमागतं शृणोमि, तं च मिलितुं निश्चिनोमि तावदसौ प्रयागं प्रतिष्ठितोऽश्रूयत । विचित्रैवाऽऽसीदावयोः । स्थितिः । परन्तु सम्प्रत्यावां सम्मुखीनौ जातौ । स मां महतोत्साहेन हर्षेण च BF वर्धापितवान् । भूयोऽप्यवदत् । - बन्धो ! ग्रामेऽस्मिन् रत्नकल्पोऽसि । कुलं ग्रामः क्षेत्रं जनपदः सर्वेऽपि भवता * सदर्थिताः । भवत्सहपाठित्वेनाऽहमपि धन्यो जातः । मातृपितृसुखवञ्चितोऽपि समाजैकशरणो भवान् यथा शिक्षां गृहीतवान् तन्निदर्शनभूतमन्येषां कृते । सम्प्रति क्व पठितुमभिलषति भवान् ? - श्रीपाल ! पार्श्ववर्तिनि महाविद्यालय एव गन्तुमिच्छामि ! - बदलापुरस्थे प्रतापगञ्जस्थे वा ? श्रीपालोऽपृच्छत् । - यत्र कुत्रापि सरलतयाऽर्थसाहाय्यमुपलभ्येत । सर्वमेव जानाति भवान् । भोजनस्याऽपि सम्यक् प्रबन्धो न वर्तते । अत एव नगरस्थे विद्यालये क्वचिद् गन्तुं क्व मे शक्तिः ? मया भणितम् । - भ्रातः ! स्वर्णकुद्दालो दर्शनाय भवति न पुनर्धरित्रीखननाय । यद्यल्पशिक्षितोऽहम् । इलाहाबादनगरमुपगन्तुं समर्थोऽभूवं तहि कथं न भवान् तत्रस्थे विश्वविश्रुतविश्वविद्यालये शिक्षां गृहीतुं समर्थः ? सोऽपि मयि तत्र विद्यमाने ? - श्रीपाल ! बन्धो ! तव स्नेह एवं भाषते । जानामि भवदीयं हृदयम् । तथाऽपि १०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146