Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 114
________________ ::: कृतवान् । कदाचित् घृतशर्कराप्रचुरं पायसं कदाचित् पूरिकाशाकं, कदाचिमाषराजमाषमिश्रितं कृशरं, कदाचिदापणादानीतं रसगोलकजातं, कदाचिच्च सक्तुगर्भा शष्कुलीं वृन्ताकालुकचौक्षसहितामशित्वा परमां प्रीतिमुपगतोऽहम् । यावदेव स्वादु भोजनं भक्ष्यते तावदेव परितुष्टिर्जायते प्रेतात्मन इति कुलवृद्धा मां समुपादिशन् । ततश्च दशमे दिने दशगात्रकर्म सम्पन्नम् । महापात्रः पिण्डदानादिकार्यं सम्पाद्य शाखालम्बितघटं स्फोटितवान् । गृहसदस्याश्च सर्वे शिरोमुण्डनं कारितवन्तः । मृतकाशौचमद्य परिसमाप्तम् । पृथग्भोजनमप्यवसितम् । अन्येद्युः श्राद्धकर्म प्रारब्धम् । तदासीन्निखिलदिवसव्यापि । श्वेतवस्त्राच्छादिते शरपत्रच्छदियुक्ते विस्तृतमण्डपे सर्वमपि कार्यं धर्मानुष्ठानं च सम्पन्नं जातम् । पार्श्ववर्तिन्यां 'वैतरण्यां सवत्सां धेनुं संस्थाप्य मया सा सरिदुत्तीर्णा । सपिण्डीकरणाऽनन्तरं महापात्रं वैकुण्ठमण्डपे समुपवेश्य यथाशक्ति प्रदत्तदक्षिणाभिस्तं प्रसादमावमापाद्यऽऽत्मानं कृतकृत्यं धन्यधन्यं तातपादादनृणं चाऽहं कृतवान् । त्रयोदशे दिवसे ब्राह्मणभोजनाख्यः सामाजिकः कश्चिदुपक्रमोऽपि पूर्तिमभजत् । वस्तुतो ब्रह्मभोजेन सहैव सर्वमपि गृहवातावरण सामान्यं जायते । स आसीन्मम तातपादः । परन्तु ममानेन कथनेन को लाभः ? यतो हि ममाऽस्मिन्नङ्गीकारेऽप्यासन् अनेके प्रत्यवायाः । यदि नामाऽसौ मम तातपाद एवाऽऽसीत् तर्हि कथं न मया सह ममाऽऽवासेऽवसत् ? कथं न मया सहैवऽभुङ्क्त ? इतः प्राक् क्वाऽऽसीदसौ ? न या कदाप्यसौ मध्येमित्रमण्डलं चर्चितः परिचायितो वा ! सर्वेऽपि नागरिका मां पितृविहीनं कुटुम्बिजनविरहितमेव परिचिन्वन्ति । आत्रिंशद्वर्षेभ्यो नगरेऽस्मिन् एकल एव स्थितोऽस्मि । विवाहानन्तरमेव पुत्रकलत्रतृतीयोऽस्मि सञ्जातः । इत्यपि सर्वे चिन्तयन्ति स्म यत् को नु जन्मदाता पिता मत्सदृशस्य श्रेष्ठाधिकारिपदप्रतिष्ठितस्य विद्याविनयसम्पन्नस्य पुत्रस्य गर्वं नोवहति ? यदि पुनर्दिवङ्गतोऽसौ जन: परमार्थत एवाssसीन्मम जन्मदाता पिता तत्कथं नु मत्तः पृथगवस्थातुमशकत् ? नाऽऽसीदसावसाध्यरोगजर्जरो, न वा विरक्तः संन्यासी, न चाऽपि मया परित्यक्तो बहिष्कृतो वा ? तत्कथमासीदसौ मम तातपादः ? प्रश्नमिमं समाधातुमेव पाठकानतीतेऽनेहसि नयामि । Jain Education International १०७ For Private & Personal Use Only ०४४०४००० ०४:००: www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146