Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ स आसीन्मम तातपादः प्रा. अभिराजराजेन्द्रमिश्रः इलाहाबादनगरस्य दारागञ्जश्मसानघटे तस्य शवो दह्यमान आसीत् ममाऽनुगतानां कार्यालयीयाधीनस्थकर्मचारिणामन्येषां च परिचितमित्राणां विशालसमवायो मा सहैव तत्र स्थित आसीत् । विचित्रैवाऽऽसीदुभयोः स्थितिः - ममाऽपि च, सम्मर्दस्य चाऽपि । शवोऽयं न मम पितुः, पितृव्यस्य, कुटुम्बिनो, ज्ञातिजनस्य वाऽऽसीत् - इति a निपुणं जानन्त एव तत्रस्था जना न मां तथा सान्त्वयितुमुद्यता आसन् यथा ते दिवङ्ग 8 सति कस्मिन्नपि ममाऽऽत्मीयेऽभविष्यन् । तथाऽपि मया क्रियमाणायामस्यामन्त्येष्ट्यां, 15 यस्य कस्याऽपि वा, ते सर्वेऽपि सम्मिलिता आसन् । . सर्वेषामेव मुखमण्डलं निर्लेखकर्गजपर्णमिव प्रत्यभासत । सर्वेषामेव नयनयोः ० प्रश्नाः प्लवन्त इव पर्यलक्ष्यन्त । तत्सर्वमहं न ज्ञातवान् इति न । तथाऽप्यनवसरवशाद वयं सर्वेऽपि मौनमेवाऽऽश्रित्य स्थिताः । एवं सत्यपि केचित् केषाञ्चित् कर्णेषु । Bor किञ्चिदुद्वमन्त आसन् । तदहं सम्यक्तया ज्ञातवान् । वस्तुतो यद्रहस्यं ते मां निवेदयितुमैच्छन्, * तथा कर्तुमशक्ताः सन्तस्तदेव तेषां सहस्थानां कर्णेषु विन्यस्यन्ति स्म । परन्तु तावताऽपि 8 तेषामुत्कण्ठाप्रशमनं न जातमित्यहं तर्कितवान् । यतो हि महताऽऽदरभावेन दाह्यमानोऽयं ॐ जनो मया सह केन सम्बन्धेन सम्बद्ध आसीदित्यहं स्वयं न ज्ञातवान् । का कथा र पुनरपरेषाम् ? R अन्त्येष्टिः सम्पन्ना। मृतात्मने, मया मत्सहचरैश्च समवेतैः श्रद्धाञ्जलयोऽर्पिताः । 9. भागीरथ्या जलेन शवदाहभूमिं शीतलीकृत्य वयं सर्वेऽपि स्वगेहानुपावृत्ताः । मार्गेऽपि, - पदातय एवाऽग्रेसरन्तो वयं स्वमौनव्रतं सम्यक्तया नियूंढवन्तः । ततश्च गृहमासाद्य, पूर्वत एव स्थापितं तत्रत्यमग्निमुपस्पृश्य निम्बपर्णं च दन्तैरीषन्निकृत्य सर्वेऽपि 8 सहयायिनः स्वगृहं प्रस्थिताः । अहमप्येकादशदिनानि यावद् मृतकाशौचं निर्वहन्, सायं प्रातर्गङ्गातटं गत्वा । तस्मै प्रेतात्मने जलाञ्जलिं दत्त्वा, पिप्पलतरुशाखावलम्बितं घटं जलेनाऽऽपूर्य , पक्वश्यामाकचूर्णनिर्मितं पिण्डं प्रदाय धूपदीपादिकं च प्रदाऽन्ते साञ्जलिपुटप्रणाम १० क्षमायाचनं च कृत्वा गृहमागच्छम् । सकृदेव सायङ्काले स्वहस्तनिर्मितं स्वादुभोजनं १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146