Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 111
________________ तदाऽनेन पुष्कलं धनं नैके चोष्ट्रास्तदश्वात् प्रति निवेदितास्तथाऽपि तेन सज्जनेन स्वोऽश्वोऽ तिप्रियत्वात् नैवाऽर्पितस्तस्मै । अथ च स वणिक् 'कथमप्ययमश्वो मया हस्तसात् कर्तव्य एवे 'ति निश्चयं कृत्वा तत्प्राप्त्युपायांश्चिन्तितवान् । 'अयं ह्येवमेव मेऽश्वं नैव दास्यत्यत एनं वञ्चयित्वैवाऽश्वं हरिष्यामि' - इति विचार्य स रोगिणो भिक्षुकस्य वेषेण राजमार्गे उपविष्टः । यदा स सज्जनस्तेनैव मार्गेणाऽश्वचालनं कुर्वन् समागतस्तदा तस्य भिक्षुकस्य दुरवस्थां दृष्ट्वा तच्चित्ते करुणा समुत्पन्ना । तत्समीपं गत्वा स कथितवान् • 'भोः ! कुत्र जिगमिषति भवान् ? उपविशतु ममाऽश्वोपरि । गन्तव्यस्थाने भवन्तं प्रापय्याऽहं प्रत्यागमिष्यामि ।' कपटभिक्षुकोऽपि तन्निशम्य शनैः शनैरश्वमारूढः । सज्जनश्चाऽयं यावत् पदातिरेव गन्तुं प्रवृत्तस्तावता स वणिक् कशयाऽश्वं प्रहृत्य वेगेन गच्छन्नुक्तवान् - ‘भो ! भवता तदा मया बहुशो याचितेऽपि महता मूल्येनाऽपि मेऽश्वो न दत्तस्ततो मया भवानेवं वञ्चितो भवदश्वं प्राप्तुम् ।' तदाऽयं सज्जन उच्चैस्तं कथितवान् - 'भो ! यदि भवता कैतवेन ममाऽश्वो गृहीतस्तदा भवत्वेवं नाम । भवानश्वं गृहीत्वा गच्छतु तं च सम्यक् पालयतु । किन्तु भवता कस्यचिदपि वञ्चनवार्तेयं न कथयितव्या । अन्यथा जनाः सर्वेऽप्यत्यधिकं सावधाना भविष्यन्ति दीन-दु:खिनां च सहायकरणे साशङ्का भविष्यन्ति कदाचिद् विरंस्यन्ति चाऽपि । अनेन च बहवो दुःखिनः सहायं न प्राप्स्यन्ति ।' 1 एतच्छ्रुत्वा स भिक्षुवेषी धनिको बहु लज्जितो जातस्तदैव चाऽश्वतोऽवरुह्य तस्य सज्जनस्य पादयोः पतितः, तस्मै चाऽश्वं प्रत्यर्प्य तेन सह मैत्रीं कृतवान् । (३) भाग्यं फलति छदिषोऽपि सोऽतीव सौम्यो भद्रिको नीतिमांश्चाऽऽसीत् । यद्यपि दारिद्यं तं बहु पीडयति स्म, तथाऽपि कुमार्गैर्धनमर्जयितुं स्वप्नेऽपि न विचारयन् स सन्तोषेणैव निजजीवनं यापयति स्म । सौभाग्येन तत्पल्यपि तत्सदृश्येव स्वभावेनाऽऽसीत् । अतः सुखेन • तयोः सहजीवनं प्रचलति स्म । Jain Education International १०४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146