Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथानायी
मुनिकल्याणकीर्तिविजयः
(१) भगवन्नाम्नः शक्तिः
एकदा एकः कश्चिद् राजा निरागसं कञ्चिद् ब्राह्मणं हतवान् । पश्चात् तेन स्वीयो दोषो ज्ञातः । अतः पश्चात्तापपूर्णः सन् स ब्रह्मवधस्य घोरपापात् स्वात्मनो मोचनार्थं प्रायश्चित्तं कर्तुं स कस्यचिद् ऋषेराश्रमं गतवान् । ऋषिस्तु कार्यवशात् कुत्रचिद् गतवान् आसीत् । अतो राज्ञा तच्छिष्याग्रे स्वपापं प्रकटितं प्रायश्चित्तं च पृष्टम् । शिष्येण किञ्चिद् विचार्य कथितं - 'भो राजन् ! शुद्धेन मनसा भवान् त्रिभगवतो नाम गृह्णातु, भवतः सर्वोऽपि दोषो विनक्ष्यति शुद्धश्च भवान् भविष्यति।' राजा तं नमस्कृत्य स्वनगरं प्रतिनिवृत्तः ।
इत आश्रमे प्रतिनिवृत्त ऋषिः शिष्यमुखाद् राज्ञः प्रायश्चित्तविधानं श्रुत्वाऽतीव रुष्टो जातः । स स्वशिष्यमुपालब्धवान् - 'भो ! केवलमेकवारमेव गृहीतमपि भगवन्नामाऽसङ्ख्यानां जन्मनां पापानि नाशयितुं समर्थमस्ति । तथाऽपि भवता राजे त्रिर्भगवन्नाम जपितुमादिष्टं तद् भवतः श्रद्धाया ऊनत्वं ज्ञापयति ।'
(२) कैतवम्
एकस्य सज्जनस्य पार्श्वे एक उत्तमोऽश्व आसीत् । अत्यन्तं सुन्दरो जात्यश्च सोऽश्वस्तस्मै अत्यधिकं प्रिय आसीत् । कदाचित् स तमश्वमारुह्याऽश्वचालनं कुर्वन् केनचिद् धनिकेन वणिजा विलोकितः । अश्वं दृष्ट्वैव स वणिग् विस्मयमुग्धो जातः । तेन चिन्तितं यद् 'यद्ययमश्वो मदीयः स्यात् तदा कियद् वरम् ? अहमप्यसाविवाऽश्वचालनानन्दं प्राप्नुयाम् । जनेषु च मम गौरववृद्धिरपि भवेत् ।'
ततः स तस्य सज्जनस्य गृहसङ्केतं प्राप्य तत्पावें गतः । तेनाऽपि स वणिक् सम्यक् सत्कृत्योचिते आसने उपवेशितः । विविधं वार्तालापं कुर्वन् सोऽवसरं प्राप्य तस्याऽश्वस्य विक्रयणार्थं तं प्रार्थितवान् । किन्तु सज्जनेन तत्प्रार्थनं निराकृतम् ।।
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146