Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Rohi
तदनन्तरं गीतं ततोऽपि कठिनमासीत्; किन्तु तथाऽप्यहं प्रयतवान् । तेन च आइन्स्टाइनमहोदयस्य वदनमाह्लादेन प्रकाशितमिवाऽभूत् ।
तदनु च प्रायोऽन्या द्वादश ध्वनिमुद्रिका वादिता: । अस्य महतो जनस्यैनां पद्धतिमधिकृत्याऽहं प्रथमत एवाऽस्वास्थ्यमनुभवन्नासम् । आकस्मिकतयैवाऽहं तस्य सन्निधिं प्राप्तवानासम्; अधुना चाऽत्र यत् प्रवर्तमानमासीत् तत्र हि स तथैकाग्रो जातो यथाऽहमेव केवलं तस्य चिन्ताया मध्यबिन्दुः स्याम् ।
एवमेव शनैः शनैरस्माकमियं सङ्गीतयात्रा शब्दरहितसङ्गीतपर्यन्तमागता । अथ मया शब्दशून्यानां केवलं स्वराणामेवाऽनुगानं करणीयमासीत् । उच्चैश्च स्वरालापो मया प्रारब्ध: । तच्छ्रुत्वा आइन्स्टाइनमहोदयस्य वदनं विकसितमिव जातम् । मस्तकं च तस्य पश्चाद् गतम् । मदर्थं चाऽप्राप्यप्रायं मम प्रापयितुं साहाय्यं चिकीर्षुरिव तस्य तच्चेष्टितमासीत् !
स हि ग्रामोफोन - यन्त्रं स्थगितवान् ।
'अथ'... स्वहस्तेन मम हस्तं स गृहीतवान् : 'बाक-सङ्गीताय वयं सज्जाः किल ! '
सभामध्ये आवयोः स्थानमावां पुनर्गृहीतवन्तौ । तदा च गायकास्तत्र नवीनं कञ्चित् स्वरं संयोजयन्त आसन् । 'मुक्तमनसा केवलं शृणोतु तावत् ' आइन्स्टाइन - महोदयो मम कर्णे मन्दमुक्तवान् : 'नाऽधिकं किमपि करणीयम् ।'
किन्त्वधिकं तु तेनैव कृतमासीत् । कस्यचित् सर्वथाऽपरिचितस्य जनस्य कृते ये प्रयत्नास्तेन कृतास्ते यदि न कृताः स्युस्तर्हि बाकमहोदयस्य 'शीप मे सेइफली ग्रेझ' - इति गीतं मया कदाऽप्यास्वादितं न स्यात् । तदनु च तद्गीतं मयाऽनेकशः श्रुतम् ; तच्छ्रवणेन च न कदाऽपि मया खेदोऽनुभूतः । यतो नाऽहं कदापि तदेकलः शृणोमि, किन्तु यदा कदाऽप्यहं तच्छृणोमि तदा श्वेतविकीर्णकेशस्य ओष्ठद्वयमध्यस्थितधूमवर्तिकस्य विस्मयसम्भृतनेत्रस्य तस्य जनस्य सान्निध्यं सततमनुभवाम्येव ।
समारम्भसमाप्तौ मया यः करतलध्वनिः कृतः स मम हार्दिक - मानन्दमेवाऽभिव्यनक्ति स्म ।
सहसैव कार्यक्रमस्य निमन्त्रणदात्री स्त्री अस्माकं पुरः समुपस्थिता 'अहं बहु विषण्णाऽस्मि, डॉ. आइन्स्टाइनमहोदय !' म्लानदृष्ट्या मां निरीक्षमाणा
Jain Education International
१०१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146