Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ तस्यां चतुर्मास्यां तेषां पुण्यदर्शनमनेककृत्वः सम्प्राप्तम् । समागते च पर्वाधिराजपर्युषणापर्वणि महावीरजन्मवाचनवेलायां प्रयत्नपूर्वकं ते हि गुरुभगवन्त उपरितनमालके व्याख्यानपर्षदि समानीताः । तदानीं पूज्यगुरुभगवन्त भृशमशक्ताः शिथिलशरीराश्चाऽऽसन् । सर्वेषां प्रभूताग्रहतः तैस्तदा यथाकथञ्चित् महावीरजन्मवाचनं कृतमासीत् तत् श्रुत्वा सर्वेऽपि मुदितस्वान्ताः सञ्जाताः । तेषां मध्येऽहमपि एकस्तदाऽऽसम् । पूज्यशासनसम्राटश्रीगुरुभगवतां निजप्रशिष्योपरि अपूर्वं वात्सल्यम् : शासनप्रभावकपूज्याचार्य श्रीमद्विजयमेरुप्रभसूरीश्वराणां वदनकमलतः कतिकृत्वः श्रुतस्तेषां जीवनप्रसङ्गः पूज्यशासनसम्राट्सम्बन्धितोऽत्र निर्दिश्यते । प्रायः सप्ताशीत्युत्तर एकोनविंशे वैक्रमे वर्षे श्रीमेरुविजयाभिधानो मुनिर्मैथिलपण्डितप्रवरश्रीशशिनाथ-झाशास्त्रिणां सविधे व्याकरणादिशास्त्राणामध्ययनं कुर्वन्नासीत् । तदानीं नैके विद्वांसः पूज्यशासनसम्राड्गुरुभगवतां पार्वे शिष्याणामध्यापनं कुर्वन्तोऽतिष्ठन् । कस्मिन्नपि समये वर्षावासे शेषकालेऽपि वा कोऽपि विद्वान् तेषां समीपे आगच्छेत् तदा ते हि पूज्यास्तं निजपाद्वेऽध्यापनाय रक्षन्ति स्म । 'अधुनाऽस्मत्पार्वे बहवोऽध्यापयितारो विपश्चितः सन्ति, अत आवश्यकता न विद्यते' इति तु ते हि पूज्या न कदाऽपि कथयामासुः । तदानीं सर्वत्रैतादृशी लोकोक्तिः प्रचलिताऽऽसीद् यत् पूज्यशासनसम्राड्गुरुभगवतां समीपे आगताः पण्डितास्तथा च प्रतिमा आदायाऽऽगता मूर्तिनिर्मातारो नैव कदाऽप्येवमेव रिक्तपाणयः पश्चाद् वलन्ति, स्वस्थानं गच्छन्ति वा। मुनिमेरुविजयाय केनाऽप्यध्ययनविषये किञ्चित् पृष्टम् । तदुत्तरं सम्यग् अददानः स भृशं विषण्णो बाढं रोदितुं लग्नश्च । पूज्यशासनसम्राटश्रीगुरुभगवता एतज्ज्ञातं, तैस्तमाकार्य प्रेम्णा पृष्टं - "अरे ! तव किं जातं, कथं त्वं रुदन्नासीः, त्वादृशस्यैवं रोदनं किमुचितम् ?'' तेन यथास्थितं निवेदितं, तत् श्रुत्वा पूज्यैः कथितम्, स्वस्थो भव, मा रोदीः, त्वं तु बुद्धिशाली परिश्रमशीलश्चाऽसि । कल्यतो मम पार्वेऽध्ययनायाऽऽगच्छेः । अहं त्वां सम्यक् पाठयिष्यामि । ७६ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146